SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ . . पा० ५ सू० १०८-11] महावृत्तिसहितम् मनुषां पत्थुपसङ्ख्यानम् । [बा०] नभसा तुल्यं वर्तते इति नभस्थत् । अनिरस्वत् । मनुष्वत् । षष्णो पवश्वयोवोर्मसंसेति केचित् । वृष्णो वसुः वृषण्वसुः । वृषणवः । मत्यर्थे स्तौ ॥२॥१८॥ मत्वर्थे त्ये परतः सकारान्तं तकारान्तश्च ममशं भवति । तपस्वी । यशस्वी । "विस्मायामेघानज:" [११४०] इति विन् | मतोर्विशेषणत्वेऽपि मत्त्वर्यग्रहयोन ग्रहणम् । यथा देवदत्तशासापण्डिता प्रानीयन्तामित्युक्त देवदत्तो विशेषणभूतोऽपि यदि पण्डितः सोऽपि प्रानीयते । मास्वान् । विद्युत्वान् । मरुत्वान् । स्ताविति किम् ? राजवद् गृहम् । कारके ॥१॥२।१०६॥ कारक इत्ययमधिकारः | यदित उर्ध्वमनुक्रमिष्यामः कारक इत्येवं वदितव्यम् | कारक निर्वर्तकं हेतुर्वा । काय ? क्रियायाः । का च क्रिया ? ध्वर्थः । कारक इति निर्धारणलक्षणेयमीप्। जात्यपेक्षकवचनम् । सौत्री वा निर्देशः । कारकेषु यद वं तदभादानं, यः कर्मणोपेयोऽर्थः स सम्प्रदानमित्यादि योज्यम् । वक्ष्यति धपाये ध्रुवभपादानम्" । [ ॥२॥१०] ग्रामादागच्छति । स्वर्गादवरोहति 1 अपायक्रियाया प्रामोऽपि निर्वतकः देवदतोऽपि । ६ वत्वाद् ग्रामोऽपादानम् । कारक इति किम् ? वृक्षस्य पर्ण पतति । कुझ्यस्व पिण्डः पतितः। अपायक्रियामा निर्वर्तकत्वेन वृक्षः कुड्यञ्च न विवक्षितम् । “अकथितम्म" [॥२॥१२१] अयादानादिमिरकथितं च कारक रंज' भवति । श्राचार्य धर्म पृच्छति । फारक इति किम । आचार्यस्य शिष्यं धर्म पृच्छति । आचार्यस्य शिष्यविशेषणत्वादकारकत्वम् । यदा कारकचाकारपञ्च सर्वमकथितमप्रतिपादितमित्यर्थस्तदेदं प्रत्युदाहरणम् । असकीर्तितमिति व्याख्याने कारकमेव लभ्यते । प्रदेशेषु करकाभिधानेsपादानादीनां ग्रहणम् । ज्यपाये ५ वमपादानम् ॥१।२।११०॥ धीबुद्धिः। प्रातिपूर्वको विश्लेषोऽपायः । चिया कृतो अपायो ध्यपायः । धीप्राप्तिपूर्वको विभाग इत्यर्थः । धीग्रहणे ह्यसति कायप्रातिपूर्वक एवापायः प्रतीयेत धीग्रहरणेन सर्वः प्रतीयते । भुवमबिचलम् , अवधिभूतं वा । ध्यपाये साध्ये यद् भुवं तदपादानसंज्ञ' भवति । ग्रामादागच्छति | ग्रामो देवदत्तं नानुपतति इति ध्रुवः । अथवा अपायात्मागपि ग्रामः । अपायेऽपि प्राम एव । देवदत्तस्त्वपाये प्रामग्रहणेन न गृह्यत इति ग्रामो ध्रुवः । एनमश्वा धावतः पतितः । गच्छुतः सार्थादवहीनः । देवदत्तो जिनदत्तादागतः । मेषी परस्परतोऽयसर्पतः । शृङ्गाच्चरो जायते । गङ्गा हिमवतः प्रभवति । इह प्रामानागछतीति पूर्वमपादानसंज्ञा पश्चात्प्रतिषेधः । विवाऽपायस्य विशेषणं किम् ? अधर्माजुगुसप्ते । प्रेक्षापूर्वकारी दुःखहेतुरधर्म इति बुद्ध्या सेग्राभ्य ततो निवर्तत इति अपादानस्वम् । एवमधर्माद्विरमति प्रमाद्यति । व्याघ्रादिभेति । चौरेम्यस्त्रायते । अध्ययनात् पराजयते । न शक्कोतीत्यर्थः। यवेभ्यो गो वारयति । अकार्यान्सुतं वारयति । मादन्धं वारयति । उपाध्यायादन्तद्धसे । मयं सञ्चिन्त्य निवर्तत इत्यर्थः। वित्रातः कारकाणि भवन्ति । उपाध्यायादधीते। उपाध्यायाच्छ पोति । अधिवक्षायां नटव शृणोति । अधिकस्य णोति । नवमिति किम् १ अरण्ये बिभेति । नात्र भयावधिभूतमरण्य किं तर्हि चौराः । नपा निर्देशः किमर्थः। वक्ष्यमाणाभिः संज्ञाभिधा यथा स्यात् । धनुषा विश्वति । पुलिङ्गया फरणसंशया बाधात् । कांस्यपात्र्यां भुते । पुलिझाऽधिकरणसंज्ञेव । धनुर्विध्यतीति कर्तृ संशा । इह गां दोग्धि पब इति परत्वात्पर्मसंश। अपादानप्रदेशाः "काऽपादामे [11 ] इत्येवमादयः । कर्मणोपेयः सम्प्रदानम् ॥१२१११॥ उपप_दिडो ये कृते उपेय इति भवति । कर्मणा य उपेयोऽर्थस्तस्कारकं सम्प्रदानसंज्ञ भवति । उपाध्यायाय गा ददाति । देवाय बलि प्रयच्छति । कर्मणेति किम् ? गवा उपाध्यायमुपैति । सम्प्रदानमित्यन्वर्थसंज्ञाकरणात् ददात्यर्थानां धूनां द्रव्येण कर्मणा उपेयोऽर्थः सम्प्रदानमिति । तेनेह न भवति । देवदत्तस्य बन्नं दर्शयति । मित्रस्य कायें कथयति । अजां नयति ग्रामम् । सम्यक् प्रदान सम्दानमिति चाश्रितम् । तेनेह न भवति । नतः पृष्ठं ददाति । रजकस्य वन्न ददाति । राज्ञो दण्डं ददाति । इह तहि कथं श्राद्धाय निग्रहते । युद्धाय सन्नह्यति । तिष्ठते ब्राह्मणी छात्रेभ्यः ? तादर्थ्यात् सिद्धम् । अथवा
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy