________________
जैनेन्द्र-व्याकरणम् [म. , पा० २ ० १०३-1.. किमर्थः १ यत्त्यस्तदादि गुरित्युच्यमाने यस्य त्यः सम्भवति तस्यान्यस्मिन्नपि शब्दे गुसंज्ञा स्यात् । तथा च लियै इदं स्त्र्यर्थे भुवे इई भ्वर्थम् । इयुवौ प्रसज्येयाताम् । तदादिवचनं किमर्थम् ? यत्रानेकरूपः सम्भवति तत्र तदादेगु संज्ञा यथा स्यात् । करिष्यति । कुण्डानि । स्थान्तस्य सनुम्कस्य च गुसंज्ञायां “थव्यतो ही श२१६६] "धेड़की"[eren६] इति दीत्वं सिद्धम् । गुरिति पुल्लिङ्गनिर्देशो भपदसंज्ञासमावेशार्थः । इह चाभ्रव्य इति गुसंशाश्रय आदेरैः । मसंज्ञाश्रयः "कन को रोऽस्वयम्भुवः" [४४/१३५] इति प्रोकारः । इह च यजुः परयमस्य याजुष्कः । गुसंशाश्रय आदेरैप "स्वादामधे" [१२।१०६] इति पदत्वे पदसंज्ञाश्रयाणि रिसत्वरत्वानि सिद्धानि । नपुंसकलिङ्गा चेद् गुसंज्ञा होतरपत्य हौत्र इत्यत्र सावकाशा सती पदसंज्ञया बाध्येत । ।
सुम्मिङन्तं पदम् ।।१।२।१०३|| "न: क्ये" [11२।१०४] इति नियमारम्भात् सुचिंति प्रत्याहारग्रहणं नेपो बहोः । मिछा साहचर्याद्वा । सुबन्तं मिङन्तं च शब्द रूपं पदसंज्ञ' भवति । सूपकारः पचति । पदसंज्ञाश्रयो रित्वादिविधिः । खरि सादेशविधिश्च भवति । ननु सुम्मिङी त्यौ । त्यग्रहणे यस्मात्स तदादेग्रहणमित्यन्तग्रहणं किमर्थम् ? अन्यत्र संज्ञाविधौ तदन्तविध्यभावज्ञापनार्थम् । तेन दृषत्तीत्यत्र क्लान्तस्य "फक्तवर्ष [ २८] इत्यनेन तसंज्ञा नास्तीति "द्वान्सस्य तो ना" [५।३।५१] इत्येप विधि षदकारापेक्षा या में भवति । इह च कुमारीगौरितरा "तादी मः" [१११११०] इत्यनेन तरान्तस्य झसंज्ञा नातीति "मरूप' [४।३।१५५] इत्यादिना प्रादेशो न भवति । पदमिति नपा निर्देशो भसंज्ञया बाधा यश स्यादि. स्येवमर्थः । अन्यथा राज्ञः राजन्य इत्यत्र भसंज्ञाश्रयमनोऽखं पदसंज्ञानय नखश्च स्यात् : पदप्रदेशाः "पदस्य" [पा।१५] इत्येवमादयः ।
नाक्ये ॥१।१०४|| क्य इति क्यच्क्वक्यपामविशेषग्रहणम् । क्ये परतो नान्तस्य पदसंशा भवति । राजानमिच्छति राजीयति । राजेनाचरति राजायते । अचर्म चर्म भवति चर्मायते । पदत्ये सति नवं सिदम् । "नर्च सुबिधि कृत कि" [ ५३२८] इति नियमादन्यत्र सिद्धमिति "क्यचि' [ ५।२।१४२] इतोत्वं "वीरकृद्गे" [५/२।१३३ ] इति दीवश्च भवति । 'त्यस्त्रे त्याश्रयम्" [१।६३] इति पदये सिद्ध नियमार्य: मिदम् । नान्तमेव क्ये पदसंज्ञ भवति नान्यत् । वाच्यति । शुध्यति । कुत्वं न भवति । नान्त क्य एवेति विपरीतो नियमी नाशङ्कनीयः । "अको'' [२२३३०] इति को नखप्रतिषेधात् ज्ञायते पदत्वे हि नखप्राप्तिः ।
सिति ॥२२२१०५॥ सिति त्ये परतः पूर्व पदसंज्ञ भवति । भवतोऽवं भवदीयः । "भवतष्ठ सौ [ 1] इति छस् । “यचि भः" [ ११२५१०७] इति पदसंज्ञायां बाधितायां पुनरारम्भः । एवमूर्ण अस्यास्तीति अर्णायुः । "काहंशुमभ्या युस् " [४।१।३२] इति युस् । “यस्य क्याज [ ४।४।१३६ ] इति खं न भवति । अहँ य्युः । अहंयुः । शुमँय्युः । शुभंयुः | "वा पदान्तस्य' [शा१२३] इति परस्वविकल्पः ।
स्वादायधे ॥१।२।१०६।। अध इति प्रतिरोधाद्वावा एकस्य सोहणम् । स्वादौ पवर्जिते परतः पूर्व पदसंज्ञ' भवति । राजभ्याम् । राजभिः । राजत्वम्। राजता । अध इति किम् ? राजानौ । राजानः । यद्यवं राजेत्यत्रापि प्रतिषेधः स्यात् । नैवं शङ्कयम् । अघ इवि पर्युदासोऽयं धादन्यत्र पदसंज्ञा विधीयत । धे तु पूर्वेष भविष्यति । यद्यवं सुवाची सुवाच इत्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्व पदत्वं प्राप्नोति । अस्तु तईि प्रसज्यप्रतिषेधः । राजेत्यत्र "अकी [५१३१३०] इति प्रतिषेधात् ज्ञायते सौ पदसंज्ञा भवति । एवमप्यध इति अनन्तररूप स्वादो विधेः प्रतिषेधोऽयं मुवाचौ सुवाच इत्यत्र पूर्वेण प्राप्तिरल्येव | कर्तव्योऽत्र यत्नः । "उत्तरपदत्वे चापदादिविधौ स्यलक्षणं न भवतीति ।
यधि भः ॥१२।१०७॥ स्वादावध इति वर्तते । यकागदावजादौ च स्यादौ धवर्जिते पूर्व भसंज्ञ मवति । गार्थः। वात्स्यः । दाक्षिः । प्लाक्षिः । पूत्रेण पदसंशा प्रासा भत्वाद् “यस्य स्थाश्च" इत्यखम् । "नमोऽकिरो.
1. भ्रघे अ०, ब०, स. २. भवर्थम-१०, २०, स.। ३. इति नायनि-, सः । .. म सम्भ-म० ।५. बुध्यति म०, स० ।