SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 01 पा० २ ० ०४-५३ ] महावृतिसहितम् दिष्यर्थेषु वदतेदों भवति । दीप्तौ-वदते चार्वी तत्त्वार्थे । 'दीप्यमानो 'बदतीत्यर्थः । उपोक्ती-कर्मकगनुपपदते । उपेत्य सम्भाषेत प्रत्यर्थः । ज्ञाने-वदते चार्वी चन्द्रोदये। जानाति बदितुमित्यर्थः । ईहे-कोऽस्मिन् क्षेत्रे वदते । को यतत इत्यर्थः । विमतौ-हे विवदन्ते । गोष्ठे विवदन्ते । विचित्रं भाषन्त इत्यर्थः । उपमत्रणे-कुलभार्यामुपवदते । परदारानुपत्रदते । अनुकूलप्रतीत्यर्थः । प्तेष्विति किम् १ वदति देवदत्तः । व्यवधायसमुतौ ॥४४॥ व्यक्तवाची व्यक्तवर्णत्वान्मनुष्यादयः प्रसिद्धाः । सम्भय वचनं समुक्तिः | व्यक्तवाचा समुक्तो गम्यमानायां वदतेदो भवति । सम्प्रवदन्ते मान्याः। सम्प्रवदन्ते साधवः । सम्भय भाषन्त इत्यर्थः । व्यक्तवागिति किम् ? अप्रवदन्ति कुक्क दाः । समुताविति किम् | देवदत्तो वदति जिनदत्तम् । छानार्धः १।२।४५॥ अनुपूर्वाद बदतेधैर्दो भवति | अनुक्दते जिनदत्तो देवदत्तस्य । अनुः साश्ये पुनरर्थे वा । धरिति किम् ? पूर्वभुक्लमनुवदति । व्यक्तवासभुक्तावित्येत्र । अनुबदन्ति वीणा। वा विवादे ॥१॥२॥४६॥ धिवादो विप्रलापस्तत्र बर्तमानाद्वदा दो भवति । विप्रवदन्ते सांवत्सराः । विप्रवन्त सांवत्सराः। विप्रयदन्ते वादिनः । विप्रवदन्ति वादिनः । युगपविरुद्ध वदन्तीत्यर्थः । व्यक्त वाग्नहरणमनुवर्तते । ततो व्यक्तत्राक्समुक्ताविति नित्ये प्राप्त विकल्पः । विवाद इति किम् ? सम्प्रवदन्ते साधयः । व्यक्तवागित्येव । सम्प्रवदन्ति शकुनयः । समुक्तावित्येव । सम्प्रवदन्ति पादिनः क्रमेण । मोऽवात् ।।१।२।४७॥ अवादि रतेदों भवति । अगिरते । अधगिरते । अवगिरन्ते । गृणातैरवपूर्वस्य प्रयोगो नास्ति । अयादिति किम् ? गिर्रात । निगिरति ? प्रतिशाने समः ॥१२ प्रतिज्ञानमभ्युपगमः प्रतिज्ञानेऽथे सम्पूर्वागिरतेदों भवति । अनेकान्तास्मक वस्तु सङ्गिरते । शते सङ्गिरते । प्रतिज्ञान इति किम् ? सङ्गिर्यत । उपरोधेिः ॥१॥राह|| उत्पूर्वाञ्चरतेरधेर्दो भयति । गुरुवचनमुच्चरते । उलम्य चरतीत्यर्थः । अधेरिति किम् १ धूम उच्चरति । उर्ध्व गच्छतीत्यर्थः । समो भया ॥१॥२।५०॥ सम्पूर्वाञ्चरतेभन्तेन योगे दो भवति । रथेन संचरते। अश्केन संचरते । भान्त प्रयुक्त दो भवति, न तु गम्यमाने । भायुक्तादिति किम् ? त्रीलोकान् संचरति जिनधर्मः । अत्र स्वात्मनेति करणं गम्यमानम् । प्राणश्च सा चेदवशिष्टव्यवहारे इति वक्तव्यम्" [वा०] सम्पूर्वाहाणो भायोगे दो भवति. सा चेदयर्थे भा | इदमेव ज्ञापकमशिष्टच्यपहारे भाऽपि भवतीति । दास्या संप्रयच्छते । वृषल्पा संप्रयच्छते कामुकः । सम इति संबन्धे ता । तेन प्रशब्देन व्यवधानं न भवति । अबर्थ इति किन् । पाणिना सम्प्रयच्छति । नेदं वक्तव्यम् । कर्मव्यतिहारे दः । सहार्थे च भा द्रष्टव्या । स्वीकृतावुपाद्यमः ॥१२॥५२॥ पाणिग्रहणमविरोधो वा स्वीकृतिः। उपपूर्वाद्यमः स्वीकृतापर्थे दो भवति । कत्यामुपयच्छते । भार्यामुपयच्छते । स्वीकृताविति किम् ? परभार्यामुपयच्छति । शुस्मृरशः सनः ॥१२॥५२॥ श्रु-स्मृ-दृश इत्येतेभ्यः सन्नन्तेभ्यो दो भवति । शुश्रूषते शास्त्रम् । सुस्मर्षते पूर्ववृत्तम् । दिदृक्षते देवम् । श्रुशिभ्यामकर्मकावस्थायां "समो गम्मच्छि." [१२।२५] इत्यादिना दो विहितस्तत्र "सनः पूर्वबस् " [ ५] इत्येव दः सिद्धः सफर्मकार्थमिदम् । स्मरतेरप्राप्त विधानम् । ___ ॥२॥५३॥ जानातेः सन्नन्तात् दो भवति । जिज्ञासते धर्मम् | "ज्ञोऽपहवे" [२।४०] ":" [१।२।१] "संप्रतेरस्मृती" [३।२।४२] इति जानतेदों विहितः । तथा का फले "होऽगे:" [१२५७१] इत्यत्र पूर्ववत्सम इति सिद्धस्ततोऽन्यत्रं 'दं वचनम् । १. तयेति शेषः । २..प्यमाना बद-थ०, ब०, स० । ३. 'गोष्ठे विवदन्ते' पुस्तके नास्ति । ४. -ति सांवत्सरः । स्थल-प्र.। ५. पाप्यः ब० स०, मु. । ६. सझिरन्ते मु.। ७. -रते । कुटुम्मामुच्चरसे । उष्क्रम्य-म०, ब०, स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy