SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ०१ पा० २ सू०१६ - १३ गतिताछील्य इति किम् ? मातरमनुहरन्ति । " शप उपलम्भन इति च वक्तव्यम्” [ वा० ] याचा शरीरस्पर्शनमुपलम्भः । देवदत्ताय शपते । उपलम्भन इति किम् ? शपति । समोऽकूजे ||१|२| १६ || सम्पूर्यात् क्रौडो ऽकूजेऽर्थे दो भवति । संक्रीडते । मंकीते । संक्रीडन्ते । अकृत इति किम् ? संक्रीडन्ति शकटानि । श्रव्यक्तं शब्दं कुर्वन्तीत्यर्थः । स्थोऽवविश्व || १ |२| १७॥ अव विप्र इत्येवंपूर्वात् सम्पूर्वाच्च तिष्ठोदों भवति । अवतिष्ठते । वितिष्ठते । प्रतिष्ठते । सन्तिष्ठते । श्रीप्सास्थेयो || १ |२| १८ || परपरितोषार्थमात्मरूपादिप्रकाशनं ज्ञीप्सा । स्थीयतेऽग्नि नियरूपेखेति स्थेयः । बहुतवचनादधिकरणे यः । ज्ञीप्सायां स्थेयोनौ च तिष्ठतेों भवति । ज्ञी सायाम् तिष्ठते कन्या छात्रेभ्यः । तिष्ठते ब्राह्मणी छात्रेभ्यः । स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः । शौष्मनक्रियया कर्मव्यपदेशभाजां छात्राणामुपेयात् संप्रदानत्यम् । स्थेयोक्तौ - देवदत्ते तिश्रुते । त्वयि तिष्ठते । मयि तिष्ठते । संशयानिवयं करोतीत्यर्थः । उद हे ||१/२/१६ ॥ उत्पति तेरीटर्थे वर्तमानादो भवति । गेहे उत्तिष्ठते । धर्मे उत्तिष्ठते । घटत इत्यर्थः । ई इति किम् ? श्रस्माद् ग्रामाच्छतमस्तिष्टति । उत्पयत इत्यर्थः । ई६ इति ईहतेः पर्यायग्रहणात् गम्यमानायामायां न भवति | आसनानुतिष्ठति । उत्तिष्टति सेना । श्रस्माद् ग्रामाद्विष्टि: ( १ ) | पञ्च पुरुषा उत्तिष्ठन्ति । I उपान्मन्त्रकरणे ||११२२२०॥ उपपूर्वाप्तिष्ठते मंन्त्रकरणे दो भवति । जगत्योपतिते । त्रिष्टुपतिष्ठते । मन्त्रकरण इति किम् ? भर्तारमुपतिष्ठति भार्या यौवनेन । उपादिति योगविभागः । तेन देवपूजासङ्गतिकरणमित्रकरणपथि दो भवति । देवपूजायाम्- सीमन्धरमुपतिष्ठते । सङ्गतिकरणे - रथिकानुपतिष्ठते । मित्रकरणेमहामात्रानुपतिष्ठते । सङ्गतिकरणमुपश्लेषः । मित्रकरणं मानसः सम्बन्धः । पथि श्रयं पन्थाः स्रुध्नमुपतिष्ठते । "वा लिप्सायामिति वकस्यम्" [ वा० ] | भिक्षुको दातृकुलमुपतिष्ठते । उपतिष्ठति वा । धेः ||१|२|२१|| अकर्मको धिरिति । उपपूर्वात्तिष्ठतेर्दो भवति । यावदमुक्तमुपतिष्ठते । यावदोदनमुपति छते । भोजने भोजने श्रदने श्रोदने उदीक्षत इत्यर्थः । घेरिति किम् ? स्वामिनमुपतिष्ठति । युत्तपः ॥ ११२२ || घेरिति वर्तते । वि उदित्वेवम् पूर्वात्ततेो भवति । वितपते । ज्वलतीत्यर्थः । उत्तपत्ते । धेरित्येव । उत्तपति सुवर्ण सुवर्णकारः । वितपति पृथ्वीमादित्यः । दहतीत्यर्थः । व्युद इति किम् ? निष्टपति । दीयत इत्यर्थः । "स्वाङ्गकर्मकाच्चेति वक्तव्यम्" [वा ] क्तिपते पाणिम् | उत्तपते पाणिम् । श्रात्मीयम स्वाङ्गं न पारिभाषिकं तेनेह न भवति । वितपति परपाणिम् । उत्तपति देवदत्तो यज्ञदत्तस्य पृष्ठम् । आङो यमहनः ॥ ११२|२३|| श्राङ्पूर्वाभ्यां वम हन इत्येताभ्यां विभ्यां दो भवति । श्रयच्च्यते । दीर्घो भवतीत्यर्थः । श्राह । श्राप्नाते । श्रानते । यमः कर्त्राप्ये फले " समुदाक यमोऽग्रन्थे” [ १/२/७०] इति दः सिद्धो ऽन्यत्रेदम् । धेरित्येव । यच्छति रज्जुम् । श्रान्ति पापम् | "स्वाङ्गकर्म का वेति वरुम्यम् [ वा० ] | आयच्छते पाणिम् । आते वचः । स्वाङ्गादिति किम् ? परकीया कर्मणि मा भूत् । शिरः परकीयम् । इन्द १. हेऽर्थे अ०, ब०, स० । २ श्र० स० पुस्तकयोः "विष्टिः" इति पाठः । ब० मु० पुस्तकयोः "दिष्टिः" इति । परं "विष्टिः" इति पाठः प्रतिभाति । विवि कर्मकृत् "आजूवेतनयोषिष्टिः कर्मकृत्कर्मो रवि" इति शाश्वतवचनात् । पूर्ववाक्याच्चात्र "उत्तिष्टति" इत्यध्याहारः । " गृष्टिः" इत्यपि पाठः सम्भवति । गृष्टिय सकृत्प्रसूता गौ: । ३ दानिक-म० । ४- दामोद-प्र० । २. दीर्वोभव-व०, स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy