SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम ४१० [अ०५० सू०७३-७८ 1 इति प्रतिषेधो मा भूत् । सुवन्धिः । निःषन्धिः । दुःषन्धिः । श्रयमनादेशसकारः । सुष्ठु | दुष्ठु | तिष्ठतेरौणादिकः कुः । श्रत्र "नाथन्ते" [५२४७६ ] इति प्रतिषेधः प्राप्तः । गौरिसक्थः । “असिसज्जियां मिथः " [ उ० सू० ] इति विथः । गौर्याः सवयीय सक्त्यि यस्येति चसे “स्वाङ्गाचि समनः " [ ४।२।११३ ] इति टः सन्तः सन | "मोसो इति” [४.३०] इति टिलए " स्थापोः " [४|३|१७३] इत्यादिना प्रादेशः । प्रतिष्णिका | प्रतिपूर्वात् स्नातेः " श्राती गौ" [२३] इति कः । टापू । तदन्तात् स्वार्थे कः पुनष्टाप् “केऽणः” [५/२/१२५] इति । प्रत्ववस्थेत्यादिनेत्वम् । नौवेदिका । दुन्दुभिमेयनम् | सपा | "पुति सन्ज्ञायामगकारात्" [ग० सू०] । हरिषेणः । साधुषेणः । एवीति किमर्थः १ दरिसन्धिः । सञ्ज्ञायामिति किम् ? पृथ्वी सेनाऽस्य पृथुसेनः । श्रगकारादिति किम् ? विश्वक्सेनः | इसको रित्येवा सर्वसेनः 1 "नक्षत्राचा एतिज्ञायामगकारात् " [ वा० सू० ]। रोहिणिपेणः । रोहिणिसेनः । भरणिपेणः । भरणिसेनः । अगकारादित्येव । शतभिषक्सेनः । श्रविहितलक्षणं पत्यमिह द्रष्टव्यम् । प्रात्यमिङस्ति ॥ ५४॥७३॥ प्रादुत्तरत्व अमिङ सकारस्य यो भवति तकारादौ हृति परतः । सर्पिष्टरम् | सर्पिष्टमन् | चतुष्टयम् । सर्पिष्ठा | सर्पिष्ट्वम् । सर्पिष्ठो विभेति । पदान्तेऽपि पत्वार्थमिदम् । प्रादिति किम् ? गीस्तरा । धूस्तरा । छतीति किम् ? सर्पिस्तत्र । अभिङ इति किम् ? मिन्युस्तराम् | हिन्दुस्तराम् | तकारादात्रिति किम् ? सर्विश्साद् भवति । पूर्वस्य मा भूत् । परस्य "सात्" [५४७७ ] इत्येव प्रतिषेधः सिद्धः । निसस्तपतावनासेवने || ५१४ ७४ ॥ निसः सकारस्य तपती परतः षो भवत्यनासेवनेऽर्थे | मुहुर्मुहुः क्रियायाः सेवनमा सेवनम् । निष्टतं सुवर्णम् । निस्तप्ता अरातयः । सकृत्तता इत्यर्थः । अनासेवन इति किम् ? निस्तपति सुवर्ण सुवर्णकारः । मुहुर्मुहुस्तपतीत्यर्थः । इदमध्यन्ते विधानार्थम् । धुनिर्देशार्थस्तिपा निर्देशः । निष्णात नदीष्णात प्रतिष्णाताभिनिष्टानकपिष्ठलप्रष्ठधिष्टर विष्टार गधिष्ठिर युधिष्ठिराः ||५||७|| निष्णात नदीष्णात प्रतिष्णात श्रभिनिष्यन कपिष्टले प्रष्ट विष्टर विष्टार गविष्ठिर युधिष्ठिर इत्येते शब्दा निपात्यन्ते । "निनदीभ्यां स्नातस्य कौशले पव्वम्" । निष्णातः काव्यकरणे | नदीष्णातः । नदीस्नाने कुशल इत्यर्थः । निस्नातनदी स्नाताचन्यत्र । योषि "सुपि" [२७] "स्थः " [२२] इति योगविभागात्के कृते नदीष्य इति । तस्य सुषामादिषु षत्वम् । प्रतिष्णातं भवति सूत्र चेत् । प्रतिस्नातमन्यत् । श्रभिनिःष्टानो भवति वर्णश्चेत् | अभिनियों परस्य स्तन ध्वन इत्यस्य कर्तरि घत्र रूपम् । श्रभिनिःस्तन्यत इति श्रभिनिटानी विसर्जनीयः | अभिनिःस्तानोऽन्यः । कपिष्ठलो भवति गोगशब्दश्चेत् । कपिष्ठलोऽपत्यं यस्य कापिष्ठलिः । आद्यः पुमानपत्यसन्ततेः प्रवर्तविता लोके गोत्रम् | ततोऽन्यः कपिस्थलम् । पृष्ठ इति प्रात् स्थस्य पत्यम ग्रामिण प्रतिष्टते इति प्रष्ठो देवदत्तः । प्रष्टो गौः । प्रस्थ इत्यन्यन्त्र | अग्रेग्रामिणीत्यत्र " कुमति" [ ५/४/१७] इति णत्वम् | "न भाभूपूज्क मिगमि " [ ५|४|११३ ] इति : कास्थस्य प्रतिषेधः । "तेः स्तरस्य वृक्षासनयोः 1 म्" । विप्टरो वृक्षः । विष्टरमासनम् । त्रिस्तर इत्यन्यत्र । “वेः स्वारस्य छन्दोनाम्नि षत्यम्" । विष्टास पक्तिछन्दः । विष्टारः बृहती छन्दः | "इन्दः खौ” [ २।३।३२] इति घञ् । पदस्य विस्तार इत्यन्यत्र “गवियुधिपूर्वस्य स्थिरस्य सञ्ज्ञायां पश्वम्" । गविष्ठिरो युधिष्टिरो गोशब्दादहलन्तादपि निपातनादीपोऽनुप् । विरथ युधिस्थिर इत्यन्यत्र । नाधन्ते ||५|४|७६ ॥ पदस्य खादावन्ते च त्वं न भवति । दधि सिञ्चति । मधु सित | अग्निस्तत्र | वायुस्तत्र | "इएको” [५/४/३७] "ध्यादेशयोः " [५५४।३३] इति प्रत्वे प्राप्त प्रतिषेधः । सात् ||५|४|७७॥ सादित्येतस्य च पत्वं न भवति । श्रग्निसात् । मधुसात् । सिचो यङि || ४७८ ॥ सिचो यङि परतः षत्वं न भवति । सेसिच्यते । "स्वादेशयोः " [५४ ३६ ] इति प्राप्तिः । अथामिसेसिच्यते परिसेसिच्यते इत्यत्र गिलक्षणं षत्वं कस्मान्न भवति ? " येन
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy