SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् प्रिपासू००-१. इत्यत्रान्तग्रहणादन्यत्र"संज्ञाविधौ त्यग्रहणात्तदन्तषिधिनास्ति परि० इत्युक्ततत्कथं कृदन्तहदन्तग्रहणम् ? नायं संशाविधिः । पूर्वेण विड़िताया मूसंज्ञाया नियमोऽयम् । अथवा "सात्" [५।११७७]इति षत्वप्रतिपधादिह तदन्तविधियिते । अन्यथा सादित्येतस्य केवलस्य मृत्त्वे 'नाद्यन्ते"[५७६] इत्यनेनैव प्रतिषेधः सिद्धः स्यात् । अथ "कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्य [परि० इति कृग्रहणं समुदायविध्यर्थ न नियमार्थम । तेन देवदतेन कृतमित्यादेः समुदायस्य मृत्वात् "सुपो धुम्वोः [३१४१५२] इति सुपः उम् प्रसज्येत । नैष दोषः, "साधनं कूता बहुलम् [ ११३।२६] हत्यल्यानर्थत्य प्रसङ्गात् । सर्वशब्दानां व्युत्पत्तिरस्तीत्वस्मिन् पते. पूर्वस्त्रे नास्त्युदाहरणं, संज्ञार्थमेव तत् | प्रो नपि ॥११जा मुदिति वर्तमानमर्थात्तान्तं सम्पद्यते । प्रादेशो भवति नपि वर्तमानस्य मृदः । नबिति नपुसकलिङ्गस्य संज्ञा पूर्वेषाम् । श्रियमतिकान्तमतिथि | अतिरि । अतिवथु कुलम् । अतिनु जलम् । ईकारकारौ तालव्यौ । ऊकारौकारौ च अोष्ठयावस्माकम् , ततः "स्थानेऽन्तरसमः [२॥१॥४७] इति परिभाषया अन्त्यस्याचः प्रादेशः । नपीति फिम् ? राजकुमारी । अग्रणी | मृद इति किम् ? रमने कुलम् | नन्वलिङ्गत्वादाख्यातस्यात्र प्रादेशाप्रासिरत एबानापि न प्रादेशः काण्डीभूतमिति । इह तर्हि मा भूत् । फाण्डे तिष्ठतः, कुष्य तिष्ठत इति । अत्र मृदधिकाराद् मृदभृदोरेकादेशो मृदन्न भवति । स्त्रीगोर्नीचः ।। १। न्यग्भूतो यः स्त्रीचः गोशब्दश्च तदन्तस्य मृदः प्रादेशो भवति । स्त्री इति स्वरितचिहितनिर्देशात् त्रिषामित्येवं विहितस्य त्मस्य प्रणम् | निष्कौशाम्बिः । निर्मथुरः । उभयगतिरिह शास्त्रे । तेन एकविभक्तिवादप्रधानत्वाच्च शास्त्रीवं लौकिकं च व्यक्त्वं गृह्यते । "स्यग्रहणे यस्मात्स तदा हतीयं परिभाषा स्त्रीत्यग्रहणान्नेष्यते । तेन–अतितिलपीठनिः । अतिराजकुमारिः। चित्रगुः । श्वेतगुः । चोक्लत्वादप्रधानत्वाच्च न्यक्त्वम् । स्त्री इति स्वरितचिहितग्रहणं किम् ? अतिलक्ष्मीः । अतिथीः | नीच इति किम् ? साधुविद्या । सुगौः। इह राजकुमारीपुः, मुगोकुलमिति यदपेक्षं न्यावं तत्प्रति तदन्तत्त्वं नास्तीति न प्रादेशः। मृद इत्यधिकारः किमर्थः ? कुमारीपुत्रः गोकुलम् "बोकं म्यक ३।१३] इति प्रादेशः प्रसज्वेत । "ईयसो बसे प्रतिषेधो वक्तव्या (वा) अधः श्रेयस्यो बस्य बहुश्रेवसी पुरुषः । विद्यमानश्रेयसी | सान्तो बिधिरनित्य इति "ऋन्मो:" [४॥२११५३] इति कपि न भवति । दुप्युप् ॥ ११ ॥ स्त्रीग्रहणं नीच इति चानुवर्तते । हृद्यपि सति स्त्रीत्यस्य नीच उन्भवति । शामलकम् । कुवलम् । बदरम् | आमलक्या अक्वतः फलम् । "नित्यं दुशरादेः" [३।३।१०४] इति मयट् । इतराभ्यां "प्राग होस्' [३.११३८] तयोः "उप फले" [३।३।१२३] इत्युप् । स्त्रीत्यल्प पूर्वेण प्रादेशे प्राप्ने उबनेन क्रियते । तस्य "परेऽच: पूर्वविधी" [१०] इति स्थानिवद्राबाद् “यस्य व्या च" [1111१३६] इत्यकारस्य खं मातमीविधि प्रति स्थानिवद्भावप्रतिधान्न भवति । एवं पञ्चेन्द्रः । पञ्चशष्कुलः । पञ्चेन्द्राण्यो देवता अस्य "वृदथ-" [१॥३॥३६] इति धस: "संख्यादी रश्व” [११३५४७] इति रसंज्ञः, “माग्दोरण' [ ३ ८] इति, तत्य "रस्योबनपत्ये" [1] इत्युप् । स्त्रीत्ययोपि "सन्नियोगशिष्टानामन्यवरापाये उभयारण्यभाष:" [परि०] इत्यानुको निवृत्तिः । पञ्चभिः शषकुलोभिः कीतः पाहांडयः "रादुरली [३।२६] मृत्युप् । हदिति किम् १ गार्गीपुत्रः'। सुप उबत्र । उपौति किम् । गागौं त्वम् | नीच इत्येव अवन्ती । कुन्ती । कुरूः। अबन्तेरपल्यं स्त्री "द्विकरूनामजादकोशलान्यः" [३।१।१५३] इति त्र्यः । तस्य "कुन्स्यवनितकुरुभ्यः स्त्रियाम्' [३/१५५५५] इत्युप् । "हत्तो मनुष्यजातेः" [३।११५५] इति डी । "उरुतः[३|१|५६] इति ऊः 1 अत्र उपि सतीत्युच्यमाने प्रसज्येत । पद् गोण्याः ॥१३१६१०।। इकारादेशो भवति गोण्या हृदुपि सति । पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः । दशगेरिणः । आहियो "रादुबखौ श२५] इत्युपि कृते स्त्रीत्यस्य पूर्वेणोपि प्राप्त ऽनेन इकारः । गोण्या इति सूत्रे प्रकृतप्रादेशेन सिद्धे इद्वचनं किम् ? क्वचिदन्यत्रापि यथा स्यात् । पञ्चभिः सूचिभिः क्रोतः पञ्चसूचिः । सप्तसूचिः। 1. चोक-मु० । २, गौरीपुत्रः २० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy