SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ म०५ पा० ३ सू० १३-२०] महावृत्तिसहितम् ३८७ धन्वं रहस्यादौ ॥३॥१३॥ द्वन्द्वमिति निपात्यतै रहस्यादावर्थे । दिौ इत्यस्य द्वित्वे सुत्रुपि पूर्वोत्तरपदोरिकारस्याम्भावोऽलं च निपाल्यते रहस्यप्रकारेऽथै रहस्याभिधाने । द्वन्द्वं मन्त्रयते । द्वन्द्वं मन्त्रयेते । द्वौ द्वौ रहसि मन्त्रयेते इत्यर्थः । मर्यादावचनादयो विषयत्वेनाश्रीयन्ते । मयांदायाम् अासप्तमनरकादधोऽधो इन्द्रं नरकपटलागि हीनानि प्युत्क्रमणं भेदः पृथस्थानम् । तत्र द्वन्द्व व्युत्क्रान्ताः । द्विवर्गसम्बन्धेन भिन्ना इत्यर्थः । यज्ञपात्र प्रयोगे, द्वन्द्वं यज्ञपात्राणि प्रयुनस्ति | अभिव्यक्ती, द्वन्दं नारदपर्वतो । द्वन्द्वं सूर्याचन्द्रमसौ । विधिबाहाणो द्वन्द्वम् । “वा वीप्सायां द्वन्द्वः' वीप्सायां द्वन्दं द्वौ द्वौ। त्तिविशेष "धार्थ इन्द्रः' [१॥३।३२] अन्यत्रापि दृश्यते । बन्दानि सहते । द्वन्द युद्धं कृतम् ! अतएव च रहस्य मर्यादावचनव्युत्क्रमण यज्ञपात्रप्रयोगाभिव्यक्तिरूपं परिंगणनं न कृतम् । पदस्थ ॥शशर पदस्पेययमधिकारो वेदितव्य आ शानपरिसमाप्तः । वक्ष्यति "नवं मृदन्तस्याको" [५।३।३०] इति | राजभ्याम् । राजभिः । तथा "स्कान्तस्य खम्" [५।३१४१] इनि पतन् । यजन् । अत्रार्थवशायदस्येत्यवयत्रे ता द्रष्टव्या । पदस्वेति किम् ? राजे । राज्ञ: 1 मर्मज्ञया नपुंसकलिङ्गा पदसंज्ञा बाध्यते पदादपादादी ॥५॥३॥१५॥ पदादिति अपादादाविति च एतद्धितयमधिकृतं बेदितव्यं प्रागसिद्धाधिकारात् । वक्ष्यति "बहीर्वस्गसी" [५४३४१७] इति । ग्रामो वो दीयते । नगरं नो दीयते । पछादिति किम् ? युष्मन्य आमो दीयते । अपादादाविति किम् ? शान्तिनाथो जिनः सोन्तु युष्माकमघशान्तये । येन संसारताभीतिरस्माकमिह नाशिता || गुष्मदस्मदोऽधिपतास्थस्य यांनाची ॥५॥१६॥ पदापरयोरपादाटी वर्तमानयोर्युष्मदस्मदित्येतबोरपनासु स्थितयोर्याम्नी इत्येताबादे शौ भवतः । युप्मदस्मदिति इतरेतरयोगलक्षणो द्वन्द्वः । श्रोस: स्थाने हस्कृतः सौत्रत्वान्निर्देशस्य | 'पदस्य सर्वस्येति च वर्तते। यदि वा पदस्येति स्थानलक्षणाऽत्र ता सम्पद्यते, मर्वस्य पदस्य स्पाने श्रादेशः । एकचहोरादेशान्तरं वक्ष्यति । अतो द्वित्रिपवे विधिः । ज्ञानं वां दीयते । शीलं नौ दीयते । ज्ञान वां रक्षतु । शीलं नौ रक्षतु । शानं वा स्वम् । शीलं नौ स्वम् । अचिप्तास्थस्येति किम् ? दानं युवाभ्यां कृतम् । स्थग्रहणं किम् ? श्रूयभागविभक्त्यों यया स्यात् । इद्द मा भूत् । इति युष्मदुपाध्यायः । पदविधिरयम् । असामध्ये न भवति | आवाभ्यां भाव्यते शानम् । सुत्राभ्यां दीयते दानमिति । अथेह सामऽपि कस्मान्न भवति ? ओदन पच तव भविष्यति गम भविष्यतीति । "समाने वाक्ये युष्मदस्मदादेशविधिरिष्यते"। इह तु भोटन पचेत्येकं वाक्यं तव भविष्यतीति द्वितीयं वाक्यम् । अवश्य समानवाक्याधिकार एष्टव्यः । शालीनां ने श्रोदनं ददाती यत्रापि यथा स्यात् । अन्यथा शालीनामिल्यस्य ते इत्यनेन सामर्थ्याभावान्न स्यात् । बहोर्वस्नसौ ॥२३॥१७॥ बन्योयुगमदस्मदोस्नस् इत्येतावादेशो भरतस्तास्वेव विभक्ती । ज्ञानं वो दीयते । शीलं नो दीयते । झानं को रचातु । शील नो रचातु । शानं वः स्त्रम् । शीलं नः स्वम् । एकस्य ते मे ॥१३॥१८॥ एकान्तयोयुष्मदस्मदोस्ते मे इत्येतावादेशौ भवतः । एक इति त्यः । "मग्रहणे यस्मात्स तदादेर्महणम्" [प० । शानं ते दीयते । शौल में दीयते । यो वक्ष्यति । जाने ते स्वम् | शीलं मे स्यम् । त्वामाविपः ॥५॥३१६॥ एकस्यति वर्तते । इबेकान्तयोथुमदस्मदोरूबा मा इल्वेताचादेशौ भवतः । ज्ञान त्वा रक्षतु । शीलं मा रक्षतु । न वाहाहवयोगे ॥१३॥२०॥ च या ह अह् एव इत्येतैयोंगे युष्मदस्मदोर्वाम्नावादयो न भवन्ति । शानं तुम मम च दीयते । युवाभ्यां आवाभ्यां च दीयते । युष्मभ्यं अस्मभ्यं च दीयते । शानं त्वा मां च रचतु ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy