________________
प्राचार्यदेवनन्दिप्रणीतम् जैनेन्द्र-व्याकरणम् अभयनन्याचार्यकृतमहात्तिसहितम्
देवदेवं जिनं नत्वा सर्वसत्वामयप्रदम् |
शब्दशास्त्रस्य सूत्राणां महावृत्तिर्विरच्यते ।। १ ॥ या सामसुवामा १५ र क्लबमधामविय: पानी
नत् सर्वलोकदयप्रियचारुवाश्यैयक्तीकरोत्यभयनन्दिमुनिः समस्तम् ॥ २ ॥ शिष्टाचारपरिपालनार्थमादाविष्टदेवतानमस्कारलक्षणं मङ्गलमिदमाहाचार्य:--
लक्ष्मीयत्यन्तिकी यस्य निरवद्याऽवभासते।
देवनन्दितपूजेशे नमस्तस्मै स्वयम्भुवे ।। लक्ष्मीः श्रीः । सैव विशिष्यते-अन्तमतिक्रान्तः कालोऽत्यन्तः तन्त्र भवा प्रान्तिको अविनश्वरी आत्मत्वभावाधीना केवलज्ञानादिविभूतिरित्यर्थः । अवद्याद् गनिष्क्रान्ता निरवद्या निदोश, अवभासते शोभते, यस्य भगवतः, यस्येति सर्वनामपदस्य सामान्यवाचिचेऽपि अन्यस्यैवंविधा श्रीन सम्भवतीति पारिशेज्यादई मारकस्य ग्रहणम् । यच्छब्दाभिहितोऽर्थस्तच्छन्देन परामृश्यत इति तस्मै देवनन्दितपूजेशे स्वयम्भुवे नमः । 'अस्तु' इत्यध्याहारः, देवाः सुराः तैनन्दिता अभिवर्द्धिता सा चासौ पूजा च तस्याः, 'ईट' इति स्विपि कृते देवनन्दितपूजेट, तथा स्वयमात्मना भवतीति स्वयम्भूः । नमःशब्दयोगे सर्वत्र हेर्भवति ।
लोके प्रसिद्ध साधुत्वानां शब्दानामन्याख्यानाश्रमिदमारभ्यते । अन्वाख्यानश्च प्रकृत्यादिनिभागेन सामा न्यविशेषवता लक्षणेन शब्दानां व्युत्पादनम् । तच्च शब्दार्थसम्बन्धमान्तरेण न सम्भवति । शब्दार्थसम्बन्धसिद्धि श्वानेकान्ताधीनेत्यत नाह
सिद्धिरनेकान्तात् ॥शशा प्रकृत्यादिविभागेन व्यवहाररूपा श्रोत्रग्राह्यतया परमार्थतोपेता प्रकृत्या'दिविभागेन च शब्दानां सिद्धिः अनेकान्ताद्भवतीत्यर्थाधिकार श्रा शास्त्रपरिसमाप्तर्वेदितव्यः । अस्तित्वनास्तित्वनित्यत्वानित्यत्वसामान्यसामानाधिकरण्यविशेषणविशेष्यादिकोऽनेकः अन्तः स्वभावो यस्मिन् भावे सोऽयमनेकान्तः अनेकामा इत्यर्थः । तस्यावग्रहहाबायधारणात्मकं प्रत्यक्षं तद्व्यवहारान्यथानुपपत्तेरितीदमनुमानञ्च साधकम् । अथास्तित्वनास्तित्वादीनां परस्परविरुद्धानां कथमकाधिकरण्यमसङ्कीर्णरूपता च ? यथा भवतामेकत्र हेती अन्वयव्यतिरेक्योः जनके रसे वा जन्यमानरूपरसापेक्षयोः सहकारित्यासहकारित्वयोः । अथ हेतौ सपक्षविपक्षापेक्षया रूपवयं रसे च सभागासमागकार्यापेक्षवा; अत्रापि तर्हि स्वरूपपररूपापेक्षयाऽस्तित्वनास्तित्वे द्रव्यपर्यायापेक्षया च नित्यत्वानियत्ये, द्रव्यपर्याययोश्चान्वयव्यतिरेकाम्यां सिद्धिरित्यास्तां तावदेतत् । अनेकान्तादितीदमेव शापफम, हेतौ कापि भवति । तेनानित्यः शब्दः कृतकत्वादित्यादि सिद्धम् ।
1. दुस्तरम् । २. तस्मै नमः इति शेषः । ३. सम्बन्धान्तरण ०, मु०। ५. 'प्रकृत्यादिविभागेन' इति पुनरुक्तः । ५. -मैक्याधि-मु०। ६. जनकपोरपि मु. । ७. च भागा-१०। ८. पन्चम्पपि ।