________________
प्र० ४ पा० ४ सू० १८-२०६] महावृत्तिसहितम्
वा म्वोः खम् ॥४ाथामा अस्फात्परो य उकारस्तदन्तस्य वा खं भवति मकारवकाराठी परतः । सुन्यः । सुनुवः । सुन्मः | मुनुमः | सुन्वहे । सुनुवहे । सुन्महे । मुनुमहे । तन्यः । तनुवः। तन्मः । तनुमः । उरिति वर्तमाने खग्रहणमन्तेऽलो नाशार्थम् । उत इत्येव । कोणीयः । कोणीमः । त्यस्येत्येव । युवः 1 रुकः । अस्मादित्येव । अानुवः । तक्ष्णुषः । सुनोम्यादिपु परत्त्रादेप् ।
जो ये च ॥ ६६॥ कृन उत्तरस्य उतः ग्वं भवति यकारादी म्योश्च परतः । कुर्यात् । कुर्याताम । कुर्युः । कुर्वः । कुर्मः । कुर्वहे । कुर्महे । नित्यत्वाखे कृते “त्यस्ये स्याश्रयम्" [१६३] इत्येप् । म्वोग्नुकर्षणाचिकारात् जायते वेति निवृत्तम ।
गेऽत उत्त् ॥ १०॥ उत्यान्तस्य करोतेरकारस्य उकारादेशो भवति किति परतः । कुरुतः । कुर्वन्ति । कुरुथः । कुरुथ । कुर्वः । कुर्भः । उदिति तपरकरणाद्विकरणमपंक्ष्य भ्युम्न भवति । ग इति किम् ? भूतपूर्वऽपि गे यथा स्यात् । अत इति तपरकरणमुत्तरार्थम् ? कितीत्येव । करोमि | करोपि । करोति । एपि कृते उभारान्तत्याभावाद्वा न भवति । "अनन्स्यविकारेऽन्त्यसवेशस्य प०] इति अकुरुतामित्यत्राटो न भवति ।
श्नसा खम् ॥४४॥२०१॥ श्नमः अस्तेश्च अतः स्वं भवति गे वित्ति परतः । भिन्नः । मिन्दन्ति । छिन् । छिन्दन्ति । अखत्यासिद्धत्वाखालुडो नकारस्य ख न भवति । अस्तेः स्तः । सन्ति । वित्तीत्येव । भिनन्ति । अस्ति । श्नस इति श्नमो माटमकारस्य पररूपत्वं ज्ञापकं शकन्थ्यादिषु पररूपं भवति । अत इति तपरसारणस्यानुवत्तिः किमर्था । आस्ताम् अासन्नित्यत्र लावत्थायामागमे ऐपि च कृते माभूत | नवटोऽसिद्धत्वादाका खं न प्राप्तम् इदमेव तपरकरणं ज्ञा पकम् अभान्छालस्य क्वचित्सिद्धता । तेन देभनुः । देभुरित्यत्र नखस्य सिद्धल्यादेवचस्खे भवतः।
थश्नोरातः ॥१२॥ थसंज्ञकस्य श्ना इत्येतस्य च य आकारस्तस्य खं भवति गे किति परतः । मिमते । मिमताम् । अमिमत । सजिहते । संजिहताम् । समाजहत | “हेऽमतः [५1५1५] इति भस्यादादेशः । लुनते | लुनतान् | अलुनत । पुन पुनताम् । अपुनत | हलीत्वं वक्ष्यते। तस्मादचि स्त्रम् । भुसंशकानां हल्यपि दत्तः । दत्से | थश्नोरिति किन् ? यान्ति । वान्ति ! आत इति किम् ? निम्नति । इति । कितीत्येव । जहाति । लुनाति ।
• हल्यभोरी ॥४९.३॥ हलादी शिति परतः थश्नोरात ईकारादेशो भवत्यभोः। सनिहीते । सजिहीर्घ । मञ्जिहीवे । मजदीबहे । सञ्जिहीमहे । मिमीते । मिमीपे । मिमीध्वे । मिमीवहे । मिमीमहे । लुनीतः। लुनीथः । लुनी । जुनीचे । जुनीवहें । लुनीमहे | अभोरिति किम् ! दत्तः। द्वितीत्येव । जहाति । तुनाति। --
इहरिद्रः ॥ १०॥ इकारादेशो भवति दरिदातेहलादी गे किति परतः । दरिद्वितः 1 रिद्रियः । दरिद्रिवः । दरिद्रिमः । “जनित्यादयः" [३५] इति यसंज्ञायाम् पूर्वेण हलादावीत्वं प्राप्तम । हलीत्येव । दरिद्धति । कितीत्येव | दरिद्राति | "भियो धा" [ ५] इत्यतः सिंहावलोकनेन वेति व्यवस्थितविभाग संबध्यते ततो दरिदातेरगविषये बहुलं रख भवति | दरिद्रातीति दरिद्रः । अदरिद्रीत । खे सत्याकायन्तलक्षणी “यमरमममातः सन" [५।३।१३२] इति सगिटौ न ।
भियो वा ॥४।५।२०५॥ भी इत्येतस्य वा इकायदेशो भवति हलादौ ग किति परतः । बिभितः । बिभीतः। विभिथः । विभीथः । बिभियः । विभीवः । बिभिमः । बिभीमः । हलोल्येव । बिभ्यति । ग इत्येव भीतः । भीयते । स्त्येिव । बिभेति ।।
हाकः ॥ १०६॥ हाकश्च वा इकारादेशो मयति हलादो गे किति परतः । अहितः । जहाँसः । जहिथः । जहीथः । जहिवः । जहीवः । जहिमः । जहीमः 1 पते हल्यभोरीः" [४।१०३] इतीत्वम | यस्ये.
४२