SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ४ पा० १ सू० ११०-११७ घा नीचः || ४ | ३|१६० ॥ नीचोऽवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति द्यौ । सशिष्यः सदशिष्य श्राचार्यः । सपुत्रः सहपुत्रः पिता । नीच इति किम् ? सहयुवा | सहकृत्वा । नात्र समुदायस्य नोचोऽवयवः सहशब्दः । नीच इति समुदायस्य विशेषणं सहशब्दस्य सर्वत्र विधी न्यस्त्वात् । इह सहयुद्धप्रियः । प्रियसह युध्वेति च सहस्य सः कस्मान्न भवति । यत्र ध्रु तदपेक्षया न सहशब्दो नीचोऽवयव इति न भवति । ३१२ I नाशिष्यगोवत्सले || ४ | ३ | १६१ ॥ श्रशिशि सहस्य सादेशो न भवति गोवत्सहलवर्जिते द्यौ | स्वस्ति सहशिष्याय गुरवे । स्वस्ति राजे सहनुत्राय । गोवत्सल इति किम् ! स्वस्त्यस्तु सगचे सहगये । सवत्साय महत्साय | सहलाय सहदलाय । समानस्य स ज्योतिर्जनपदाश्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ॥४३॥१६२॥ समानस्य स इत्ययमादेशो भवति ज्योतिष, जनपद, रात्रि, नाभि, नाम, गोत्र, रूप, स्थान, वर्ण, वयस् वचन बन्धु इत्येतेषु परतः । समानं ज्योतिरस्य सज्योतिः । यदि वा समानं व तज्ज्योतिश्च सज्योतिः । “पूर्वापरप्रथम " [१|३|| ५३ ] इत्यादिना यसः | सजनपदः । सरात्रिः । सनाभिः । सनामः । सगोत्रः । सरूपः । संस्थानः । [सबर्स्ः । खत्रयाः |] सवचनः । सन्धुः । भेऽलिङ्गम् ! मेन पावर समानस्यत योगविभागाद्त्येष्वपि सादेशः । तेन सघन | सपक्षः सगन्धः । सदेशः । समानजातीयः । “जातेश्को बन्धुनि " [ ४२११८ ] इति स्वार्थे छः । समाने तीर्थे भवः सवर्थः । दिगादिवाय इत्येवमादि निद्धम् । सह्मचारी || ४|३|१९३॥ सब्रह्मचारीति निपात्यते च गम्यमाने । समानो ब्रह्मचारी समाने ब्रह्मणि व्रतं चरति वा मन्त्रह्मचारी । समाने श्रागमे व्रतचारीत्यर्थः । घोयें ॥४३॥१६४॥ उदर्यशब्दे श्रौ समानस्य वा स इत्ययमादेशो भवति । समानोदरे शक्तिः सोदर्यः । समानोदर्यः । “समानोदरे शयितः " [३।३।२०८ ] इति यः । कथं युधिष्ठिरमोद वृकोदर इति । समानस्येति योगविभागात् । दशग्दतवती ॥४३॥१६४॥ दृश दृकू दृक्ष वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति । समानो दृश्यते सदृशः। बहुलवचनात्कर्मणि श्रगादिः । श्रन्यथा वा व्युत्पत्तिमात्रं कार्यम् । नमानमात्मानं पश्यति सदृशः । सदृक् | सदृक्षः | "स्थानी शोनाल के टक् च " [२२५८] इत्यत्र “समानान्ययोश्च" [वा०] इति चनाश्चि भवति । सोऽप्यस्मादेव निर्देशात् तत्र स्मर्तव्यः । चतुः समानशब्दायरों न सम्भवतीति बनुग्रहयमुत्तरार्थम् । किमिदमोः कीश् ||४|३|१६६ ॥ किम् इदम् इत्येतयोः की ईश इत्येतावादेशौ भवतः दृशादिनु परतः । क इव दृश्यते कमिव पश्यति का कहाः । कीदृक् । कीदृशः । किम्परिमाणमस्य कियान् । "फिमः" [ ३ | ४|१६२ ] इति चतुर्वेकारस्य च त्रः । श्रयमिव दृश्यते इममिव पश्यति वा ईदृशः । ईहकू । ईदृक्षः । इदम्परिमाणमस्य इवान् | "इदमो वो घः" [२३२४१६१] इति चतुर्वकारस्य च यः । " मा सर्वनाम्नः" [३/३/१७ ] इत्यात्वस्यापवादोऽयम् । श्रा सर्वनाम्नः ||४|३|१६७॥ सर्वनाम्न प्रकारादेशो भवति दृशदृग्दृचवतुषु परतः । स इव दृश्यते तमिव पश्यति वा तादृशः । तादृक् । तादृक्षः । तत्परिमाणमस्य तावान् । "यत देतेभ्यः परिमाणे वतुः " [१४| १६०] इति चतुः । यादृक्षः । यादृशः । यावान् । अन्यादृशः । श्रन्यादृक् । श्रन्याः । श्रा इति त्रिमात्रोच्चारणम् "भ्योऽपदे” [४३८४] इति पररूपनिवृत्यर्थम् । अकारोच्चारणं तु हल्निवृत्त्यर्थं स्यात् । श्रन्यशब्दे च क्षेषः प्रसज्येत। त्यदादेरिति सिद्ध सर्वनाम्न इति महणम् श्रन्यशब्दसंग्रहार्थमुत्तरार्थं च |
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy