SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १६४ जैनेन्द्र-व्याकरणम् [ ० ३ पा० १ सू० ८०-८५ तस्मिन्नेक एम त्यो भवति । स च परम प्रकृतेर्भवति । यदपि व्यवद्दितेन जनितमपत्यं वदपि परमप्रकृतेः सामापेनापत्यं भवत्येव । यदपि सर्वेऽप्यपत्येन युज्यन्ते तथापि प्रथमादित्यनुवर्तनात् परमप्रकृतैरेव भविष्यति गर्गस्यापत्यं गार्ग्यः । तत्सुतोऽपि गार्ग्यः । एवं व्यवहितेऽपि वृद्धापाये विवक्षिते गर्गशब्दाद्यशेवमर्षात । श्रथवा प्रकृतिनियमोऽयं वृद्धापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः त्यमुत्पादयति नान्येति प्रकृतिर्नियम्यते । एवं नस्यापत्यं नाडायनः । ततो यूनि ||३|११८० ॥ तती वृद्धत्यान्ताद् यून्यपत्ये विवचिते एक एव स्यो भवति । गार्ग्यस्यापत्य युवा गार्ग्यायणः । दाक्षायणः । श्रौपगवः । नाडायनिः । जीवति तु श्ये युवा 1 ॥ १८१ ॥ वंशः पितृपितामहादिप्रबन्धः तत्र भवो वंश्यः पित्रादिः । पौत्रादीति वर्तते । तन्त्रार्थयशात् तान्तं संबध्यते । पौत्रादेर्यदपत्यं चतुर्थीदिकं तद्वंशे ओबति युवसंज्ञ' भवति स्त्रियं वर्जयित्वा । गार्ग्यस्यापत्यं गार्ग्यायणः । दात्तेर्दाचायणाः । श्रस्त्रियामिति किम् ? गार्ग्यस्यापत्यं स्त्री गार्गी । दाक्षी । तु शब्दो वृद्धसंज्ञासमावेशनिवृत्यर्थम् । वह दोषः स्यात् । सालकेरपत्यं युवा "यत्रियो: " [ ३ | १|१०] इति फय् । पैलस्यापत्यं युवा "द्वयचोऽया:" [ ३|१|१४३ | इति फिञ् । तयोर्मूनि "पैठादेः” [२४] १११ ] इत्युन् भवति । वृद्धसंज्ञासमावेशे तु " वृद्ध ऽध्यनुप्” [ ३ | १ | ७३ ] इति प्राग्द्रबीये जादावनुप् प्रसज्येत । श्रस्तु "यूमि" [१७] इति भविष्यति । इह तर्हि दोषः । “फ फिशोर्वा " [३११७६] इति सन्धिभाष्यते । उपक्षेऽपि वृद्धसंशासमावेशे "वृद्ध इत्यनुप्” [३/१/७३] इति अनुस्यात् । श्रथ समावेशे कथं वृद्धलक्षणो वुञ् गार्ग्यायग्णानां समूहः गार्ग्ययणकम् । वक्ष्यति "वृक्ष [४] आदिसूत्रे - ग्रहणेनैव सिद्धे राजन्यमनुष्यग्रहणं ज्ञापकमपत्याधिकारादन्यत्र वृद्धमहये लौकिक गोत्रग्रहणम् । तेन वृद्धयूनोः समावेशः 1 भ्रातरि च ज्यायसि ||३|१|८२ ॥ पौत्रादिरपत्यमिति वर्तते । भ्रातरि च ज्यायसि जीवति कभीयान् भ्राता युवसंज्ञो भवति । मृतेऽपि वंश्ये यथा स्यादित्यारम्भः । भ्राता वंश्यो न भवति साक्षात् परम्परया वा अकारणत्वाद्गास्य द्वौ पुत्रौ ज्यायसि जीवति कनीयान् गार्ग्यायणः । एवं दाक्षायणः । ज्यायांस्तु भ्राता गायों दाक्षिरिति । धान्यस्मिन् सपिण्डे स्थविरशरे जीवति ||३|१| =३॥ पौत्रादेरपत्यमिति वर्तते । येषां सप्तमः पुरुष एकस्ते सपिण्डाः परस्परम् | बले यसे वा सपिएडशब्दः । समानस्य समान हैव निपातितः । प्रकृतं जीवतीति शत्रन्तं स्थविरतरस्य विशेषणम् । इदं तु जीवतीति पदं तिङन्तं संज्ञिनो विशेषणम् । भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौधादेरपत्यं यज्जीवति तद्वा युवसंज्ञ भवति । गार्ग्यायो गार्ग्यः । दाक्षायणो दादिः । श्रन्यग्रहणं किम् । भ्रातरि इति वर्तते । तस्मिन्नेव सपिण्डे पितृव्यपुत्रे जीवति स्यात् । सपिण्डग्रग्मसम्बन्धान्यसम्बन्धनिरासार्थम् । ज्यायसीति वर्तमाने स्थविरतरग्रहणं किम् १ स्थानवयोभ्यां ज्येष्ठे सपिएडं यथा स्यात् भ्रातृव्ये वयोज्येष्ठे पितृव्यः कनीयान् युवसंज्ञो न भवति । जीवतीति किम् ? मृते गार्ग्य एव । पूजाकुत्सयोर्व्यत्ययः ॥ १११८४ ॥ चेति वर्तते । परस्परविषयगमनं व्यत्ययः । वृद्धस्य युवसंज्ञा यूनश्च वृद्धसंज्ञेत्यर्थः । पूजायां कुत्सायां च गम्यमानायां यथासंख्यं वृद्धयूनोर्वा व्यत्ययो भवति । पूजायाम् - तत्रभवान् गार्ग्यायः, तत्रभवान् गार्यो वा । युवसंज्ञासामर्थ्यात् वृद्ध त्यस्य युवत्येन योगः । कुत्सायां गार्ग्यस्त्वं बारम | गाय जाल्म । वृद्ध संज्ञासामर्थ्यात् युवत्यस्य निवृतिः । अबाह्रादेरिन् || ३|१|८५ ॥ तस्यापत्यमिति वर्तते । श्रकारान्तेभ्यो मृषः बाहु इत्येवमादिभ्यश्च अनन्तरे बुद्ध युवसंशके चाऽपत्ये इम भवत्यणोऽपवादः । श्राकम्पनिः । दाचिः । श्रपगविः । श्रनकारा
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy