________________
०२ बा०
सू० ३१-३८ ]
महावृत्तिसहितम्
वहियां राम भवति । जीवनाशं नश्यति । छीवो नश्यतीत्यर्थः । पुरुषवाहं वति । पुरुषो मूत्वा वहतीत्यथः। करिति किम् ? जीवन नष्टः । पुरुष वन्ति । श्रत्र करो कर्म च वाक् ।
१४१
ऊर्ध्वं त्रिपुरोः || २|४|३१|| करिति वर्तते । ऊर्ध्वशब्दे कर्तृवाचिनि वाचि शुषि पूरि इत्ये भवति । ऊर्ध्वशोत्रं शुष्कः । ऊर्ध्वः इत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्व पूर्यत इत्यर्थः ।
ताभ्यां शाम्
I
कर्मणि ॥ २|४| ३२ ॥ शब्दे कार्यस्यासम्भवादिवार्थं उपमानं गृह्यते । इवशब्दार्थे वर्तमाने कर्मणि कर्तरि भूवादिघोम् भवति कर्मणि । घृतनिधायं निहितः । घृतमित्र निहित इत्यर्थः । एवं जीवितरक्ष रक्षितः । कर्तरि — अक्रूरनाशं नष्टः । अक्रूर इव नष्ट इत्यर्थः । एवमजकनाशं नष्टः । चूडकनाशं नष्टः । पिचादिषु यथाविध्यनुप्रयोगो न वक्तव्यः । योग इति वर्तते तत्र प्रत्यासत्तेरभिघानवशाद्वा यव एव धोर्णम् तस्यैवानुप्रयोगः ।
शोभायाम् ||२|४|३३|| उपपूर्वा शेर्मान्ते वाचि णम् भवति । धुयोग इति च वर्तते । एककर्तृकादिति व पूर्वकालवं संभवतः संवन्धनीयम् । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदेशं मुझे | "या माहि" [४] ते विभाषया वाक्लः । त ऊ यानि वाक्संशाने वयन्ते तानि मानि गृह्यन्ते । सर्वत्रास्मिन् प्रकरणे वेत्यनुवर्तते । तेन तत्राऽपि भवति । मूलकेनोपदेश्य भुङ्क्ते । कर्मणः साधकतमत्वविषायां भा भवति । श्रथवा उपदेशिगुणस्य मुन्जेरेतत्करणम् ।
हिंसादेककर्मकात् ||२||४१३४ || भायामिति वर्तते । हिंसार्थेभ्यो घुभ्योऽनुप्रयोगेणे ककर्मकेम्यो भान्ते वाचि णम् भवति । दण्डाघातं गाः सादयति । दण्डेनाघातम् | "करो" [२/७/२४] इत्यनेन हन्तेर्यः पूर्वनिर्णयेन म् विहितस्तस्यैवानुप्रयोगो द्रष्टव्यः । हन्तेरन्यदपीहोदाहरणम् । दण्डाताडं गाः कालयति । वरनाताम् । खङ्गप्रहार शत्रून विजयते । स्वङ्गेन प्रहारम् । एककर्मकादिति किम् ! दराडे नाहृत्य भूमि गोपालको गाः सादयति ।
ईपि चोपपोडरुधकर्षः || २|४|३५|| उपपूर्वेभ्यः पीडघकर्तेभ्य ईपि वाचि चकाराद्भान्ते वाचिग्राम् भवति । उपशब्दः प्रत्येकमभिसम्बध्यते । त्रयोपरोधम् । बजे उपरोधम् । व्रजेनोपरोधम् । पार्श्वोपपीडं शेते । पाश्र्वभ्यामुपपीडम् । पार्श्वयोरुपपीडम् । पाययुपकर्षे धानाः पिनष्टि । परापकर्षम् । पाणिनोपकर्षम् ।
प्रमाणासत्त्योः ||२|४|३६|| ईषि भाषां चेति वर्तते । प्रमाणमायाममानम् । श्रासत्तिः सन्निकर्षः । ईनन् मान्ते वाचि धोर्यम् भवति प्रमाणास त्योर्गम्यमानयोः । द्व्यङ्गुलोत्कर्षं गं गडकानिति । व्यङ्गलोस्कर्षम् । त्र्यङ्गुलेनोत्कर्षम् । ञ्यङ्गुले उत्कर्षम् । श्रासत्तौ । केशग्राहं युध्यन्ते । केशेषु ग्राहं केशैर्माहम् | सन्निकृष्टं युध्यन्ते इत्यर्थः । एवमस्यपनोदं युध्यन्ते । श्रसिष्वपनोदम् । श्रसिभिरपनोदम् । हस्तग्राहम् । हस्तेषु प्राइम् । हस्तैर्माम् ।
त्वर्थपादाने || २|४|१७|| त्वरत्वय स्वरीति सौत्रमात्वम् । त्वरायां गम्यमानायामपासने वाचि घोर्यम् भवति । शय्योत्यायं धावति । शय्याया उत्थाय । मुखप्रक्षालनाद्यवश्यकार्यमकृत्वा स्वरत इत्यर्थः । एवं स्तनरन्ध्रापकर्ष पयः पित्रति । स्तनरन्ध्रादपकर्णम् । भ्रष्टापकर्षमभूपान् भक्षयति । भ्राष्यदपकर्षम् | वेत्यनुवर्तनात् शय्याया उत्थाय धावति । स्वरीति किम् ? आसनादुत्थाय गच्छति ।
इषि || २|४|३८|| त्वरीति वर्तते । इचन्ते वाचि त्वरायां गम्यमानायां चोर्णम् भवति । यष्टिग्राह युध्यन्ते । यष्टिं ग्राहम् । स्वरया युद्धप्रहरणमनपेक्ष्य यष्टिमादाय युध्यते इत्यर्थः । एवं पटापकर्षं घान्द्र पटमपकर्षम् | त्वरीत्येव । खड्गं गृहीत्वा युध्यन्ते ।