________________
जैनेन्द्र-व्याकरणम्
[अ० २ पा० १ सू० १ १०
कर्मण्यण् ॥ २२२ ॥ कर्मणि कारके वाचि धोरमित्ययं त्यो भवति । कुम्भकारः । शरलावः । चर्चापारः । दिशदात् "कको कृति " [] इदिता । " वागमिङ" [ १३३८२ ] इति षसः । “शीचिकामिभक्ष्याचरीक्षिक्ष मिभ्यो हो वक्तव्यः " [वा०] धर्मशीलः । धर्मशीला । धर्मकामः । वायुभक्षः । धर्माचारः । धर्मापेक्षः । क्लेशक्षमः । नेदं वक्तव्यम् । घञन्तेन बसे सति सिद्धम् । धर्म शोलभस्य धर्मशीलः । धर्मे कामोsस्य धर्मकामः । धर्म शीलयतीत्येवमादिविग्रहे अनभिधानादय् न भवति यथा श्रादित्यं पश्यति हिमवन्तं शृणोतीत्येवमादौ न भवति । कुम्भकारादिध्वस्वजन्तेन च बस इत्युभयं भवति । हायामः ||२||२ || ह्वावा मा इत्येतेभ्यश्चाय् भवति कर्मरिण वाचि के प्राप्त इदं वचनम् । स्वर्गह्नाथः । तन्तुवायः । वातिवाय त्यो मतिश्चाकर्मकत्वादप्रहणम् । धान्यं मिमीते मयते वा धान्यमायः । मीना तिमिनोत्योः कप्रातेरभावात् पूर्वेणैवाणू ।
૦૨
अतः कः || २२|३|| आकारान्तादोः कर्मणि वाचि क इत्ययं त्यो भवति । गोदः । श्रर्थः । पाषियंत्रम् । श्रृङ्गुलित्रम् । ज्या वयोधनावित्यस्य ब्रह्म जिनातीति ब्रह्मण्यः ।' के कृते परत्वादातः से पश्चाजिः । “असिद्धवदत्राभात्" [४/४/२१] इत्यात्वस्यासिद्धत्वादिया देशो न भवति । यणादेशः सिद्धः । जुहुत्रतुः जुहुवुरित्यत्र हुञ श्राखमकृत्या जिः क्रियते इत्यात्वं नास्तीत्युवादेशः सिद्धः । श्रहः । प्रहः । इत्याकारान्तात् "तो गौ" [२३] इति कः । प्रागालं पश्वाजिः ।
प्रे ||२४|| प्रपूर्वादात्तः को भवति कर्मणि वाचि । तत्त्रप्रशः । मोक्षप्रज्ञः । नियमार्थोऽयमारम्भः । म एव गौ नान्यस्मिन्नातः को भवति । गोसंदायः । वत्रासंदायः ।
दाशः ॥||५|| अयमपि नियमः । दा शा इत्येताभ्यामेव प्रपूर्वाभ्यां कर्म को भवति । धर्मप्रदः । धर्मप्रज्ञः । नियमादिह न भवति । पाणिप्रत्रायः । प्रभुलिप्रत्रायः । कथं भाष्ये प्रयोगः "अभिज्ञश्च पुनरे+त्वादीनामर्थानाम्" इति । अत्राभिधानवशात् "ध्यासो गौ" [२८] इति को भविष्यति ।
संख्यः ||२|२|६|| प्र इति नियमेन निवर्तते के पुनरारम्भः । सम्पूर्वात् ख्या इत्येतस्मात्कर्मणि च को भवति । पशून् सञ्चष्टं पशुसंख्यः । श्रश्वसंख्या |
सुपि ॥ २२|७|| सुबन्ते वाचि धोरातः को भवति । पादैः पिवति पादपः । कच्छेन पित्रति कच्छपः । द्वाभ्यां पिवति द्वीपः । समस्यः । विषमस्थः । धर्माय प्रददाति धर्मप्रदः । शास्त्रेण प्रजानाति शास्त्रप्रशः । कर्मण्यपि बान्वि यथा स्वादिति सुमहणम् । इह केचिदात इति नानुवर्तयन्ति । तेन भूलविभुजादिष्यभिधानवशात् कः सिद्धः । मूलान् विभुजति मूलविभुजो रथः । जलवहम् । नखमुचानि धनूंषि । काकगुहास्तित्वाः । स्थः ॥ २२८ ॥ सुपि वाचि तिष्ठतेः को भवति । कर्तरि पूर्वी योगः । प्रनिर्दिष्टा खात् भावेऽपि यथा स्यादित्यारम्भः । आखूनामुत्थानमात्यः । शतमोत्थः । " स्थास्तभोः पूर्वस्योदः " [ २/४/१३५] इति सका रस्थ पूर्ववत्वम् ।
हो घर ||२२|| इतः प्रभृति कर्मणीति सुपीति च द्वयमनुवर्तते । कर्मणि वाचि दुहेः को भवति कारादेशः । कामान्दोग्धि कामदुधो धर्मः । कामदुधा धेनुः ।
तुम्हशोकयोः परिमृजापनुदोः ॥ २२२॥१०॥ तुन्द शोक इत्येतयोः कर्मणोर्वाचोः परिमृज अपनुद इत्येताभ्यां को भवति । श्रविशेषेण "सुपि " [रारा७] इत्येतेनैव के सिद्धे श्रालस्यसुखाहरणयोरर्ययोर्यथा स्वादित्यारम्भः । तुन्दपरिभृतः अलसश्चेत् । शोकापनुदः पुत्री जातः । पूर्वी "तिकुप्रादय:" [११३३८१] इति सः पश्चाद्वाक्सः । श्रालस्य सुखाइरणयोरिति किम् ? तुन्दपरिमार्ज आतुरः । शोकापनोदो धर्माचार्यः ।
१ के कृते परश्वादेारम्य मागात्वं पश्चाविजः इत्यतः पाठविन्य: 1