________________
जैनेन्द्र-व्याकरणम्
[.२ पासू. -
जुगुप्सा । तितिक्षा। चिकित्सा । सनोऽकारोपदेशः प्रतीपिषतीत्यादौ श्रवणार्थः ।
"एकदेशकृत लिन समुदायविशेषग्यम् । अनुदानेवमायाभ्यां तेनायं यो विधीयते ।" मान्अधदानशानभ्यो वीश्वस्य ॥
२४॥ मान् वध दान शान इत्येतेभ्यः सन् भवति दी चस्येफारस्य । मीमांसते । भीभत्सते । दीदांसते | शीशांसति । शीशांसते । श्राधावनुदाप्तेतौ । परी खरितेती । "घविकारेवपवादा उत्सान्न साधन्ते" [प०] इति कृतकारस्य चस्स दीत्वम् । अत्रापि "जिज्ञासारूप्याजेय. निशानेषु यथाक्रमं समिष्यते"[चा०] । पूजानधनावरखण्डनतेजनेषु न भवति । मानयति । बाधयति । दानयति । निशानवति । दान उत्तरत्र वैति व्यवस्थितविभाषा । तदवलोफनादयं विभागः ।
तुमीच्छायां धो?प ॥२॥१॥५॥ इच्छायां तुमि यो धुस्तस्मात् सन् वा भवति तुमश्चोम्भवति यदा सन् । कर्तुमिच्छति चिकीर्षति । बुभुक्षते । अयं 'हीच्छाया तुम् विहितः । हेतुफलयोरित्यधिकृत्य "इच्छाधे लिलोटो" [२१११३] "तुमेककनके" (२१३/१३५] इति वचनात् । इहापि सामान्यविशेषभावेन हेतुफलभावोऽस्ति । एपितुमिच्छति एपिषियति । मिति किम् ? इच्छायामित्युच्यमाने हच्छार्थानामिपियाञ्पादीनां ग्रहणं स्पात् । तुम्हणे सति नभ्यामित्येतत्तुमो विशेषयाम् ! दहयामुएलन्हित दुमति । तेन यत्र तुमो निमित्तं हेतुफलभावो नास्ति तत्र न भवति । इच्छति कटं करोति चैनम् । मिन्नकन कत्वे च न मवति । इच्छति देवदत्तः करं कुर्याज्जिनदत्तः । यत्र तुम् नास्ति तत्र च न भवति । इच्छायामिति क्रिम् ! कत्तुं गच्छति । अत्र "बुग्णसुमौ क्रियायो वपर्यायाम्" [२३] इति तुम् | धोरिति किम् ? प्रकर्नु मैच्छत् प्राचिकीर्षत् । लोकपतिर्मा भूत् । अगसंज्ञार्थ च धुग्रहणम् । घाग्रहणावाक्यस्यापि साधुत्वम् । इहोपचारात् सिद्धम् । पिपतिषनीव पिपविषति कूलम् । मुमूर्षतीव मुमूर्षति श्वा । वेति व्यवस्थितविभाषा । तेनेच्छासन्नन्तात् सन्न भवति । चिकीर्षितुमिच्छसि । अनिच्छासन्नन्ताद्भवति । जुजुगुप्सियते ।
"मस्वपषिकाच्चापि मत्वधः शैषिकस्तथा । सरूपत्यविधिर्नेयः समन्तान सनिष्यते ॥"
स्वेपः क्यच ॥२१॥६॥ स्वस्य यदिबन्ते तस्मादिच्छायां वा क्यज् भवति । श्रात्मनः पुत्रमिच्छति पुत्रीयति । पटीयति | ककारो "क्ये"[१।२।१०४] इत्यत्र सामान्यग्रहणार्थः । चकारः सामान्यग्रहणाविषातार्थः 1 तेन 'एकानुबन्धग्रहणे न द्वयनुबन्धकस्या०] इत्यर्य विधातो नास्ति । स्वग्रहणं किम् ? पुत्रमिच्छति ब्रह्मचारी मरणमिच्छति दुर्जनः। अत्र परस्येति गम्यते । इनिति किम् ? पुत्र इच्छति । पुत्राय हन्छति । वाक्यात् कस्मान्न भवति । महान्तं पुमिच्छति वाक्यस्यानिवन्तत्वात् । अययवादसामान भवति । कर्मोक्तमन्त्र क्यचा तेन कर्तरि भावे च प्रयोगः । पुत्रोयति । पुत्रीयते अनेन । वेत्यनुवृत्तेझिमन्तभ्यो न भवति । उच्चरिच्छति । इदमिच्छति । किमिच्छति ।। काम्यः ॥
२७॥ स्वस्य यदिबन्तं तस्मादा काम्यो भवतीच्छायाम् । पुत्रमिच्छत्यात्मनः घुप्रकाम्यति । पटकाम्यति । ककारस्य प्रयोगाई वादिसंशा नास्ति । योगविभागादुत्तरत्र क्यच एवानुवृत्तिर्न फाग्यस्य ।
गौणावाचारे ॥२॥राम!! गौणममुख्यमाचरणक्रियायामुपमानमित्यर्थः । गौणादिचन्तादाचारेऽयं वा क्यज् भवति । पुत्रमिवाचरवि पुत्रीयति छात्रम् । प्रावारीयति कम्बलम् । व्यवस्थितविभाषाधिकारादीप्यपि भवति । प्रासादीयति कुट्य।
कई : कासखं विभाषा ॥२१॥६॥ कतुं गौणादाचारेऽर्थे वा क्यङ् भवति यन्तै सकारस्तस्य च खं विभाषया । इह कतृ ग्रहणादिन सम्भवति सुबन्तात् क्यङ्गः । श्येन इव पाचरति काकः श्येनायते । कुमुदं पुष्करायते । व्यवस्थितविभाषेयम् । 'मोजोऽप्सरसोनियं पयसस्तु विभाषया ससम् [ दा०] ।
.. यदीच्छा-या । २. पा० भायो-"शैषिकान्मतुषर्षीयाच्छधिको मतुर्थिकः । सरूपः प्रत्ययो नेष्टः सन्तान सनिष्यते।" इस्येवंक्षपः।