________________
अ० पा० ४ ० २८-३४ ]
महावृतिसहितम्
६६
विगुणं मन्ये । प्रशंनेयम् । उभयग्रहणं किम् ? प्रश्मानं दृषदं मन्ये । स्वरूपकथनमेतत् । मन्यग्रहणं किम् ? न त्वा तृणं चिन्तयामि । विकरमा निर्देशः किए १ं ये अजीव इति किम् ? न त्वा श्वानं मन्ये । मालं मन्ये । श्रवाचित्वाद् युष्मदस्मदादेरविभक्ती न भवति ।
संशोभा || १४|२८|| कर्मणीति वर्तते । संपूर्वस्य जानातेः कर्मणि भा भवति । मात्रा संजानीते । मातरं संजानीते । पित्रा संजानीते । पितरं संजानीते । " संप्रतेरस्मृतौ” [१।२।४२ ] इति दा । वेति व्यवस्थितविभाषाऽनुवर्तते । तेन दविषये भाविकल्पः । स्मृत्यर्थे मविधिः । तत्र मातुः संजानाति । मातरं पंजानाति । "स्त्रददयेश कर्मणि' [१|४|११] दयत्र ताविकल्पं वक्ष्यति । कृत्प्रयोगे परत्वात् "कर्तृकर्मणोः कृति " [१४६८ ] इति तैय भवति । मातुः संज्ञाता |
कर्तृकर भा ||११४१२६ ॥ कर्तरि करणे च कारके भाविभक्ती भवति । देवदत्तेन भुक्म् । जिन दत्तेन भुक्तम् । करणे - दात्रेण लुनाति । भेति वर्तमाने पुनर्भाग्रहणं किम् ? प्रकृत्यादिभ्यो यथा स्यात् । प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः । प्रायेण वैयाकरणः। काश्यपोऽस्ति गोत्रेण । समेन धावत । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । सहस्रेण श्रश्वान् क्रीणाति ।
सहार्थेन || १|४|३०|| योग इति मण्डूकप्लुत्याऽनुवर्तये । सहशब्दार्थेन योगे भाविभक्ती भवति । प्रधानस्य मृदतिरेकाभावादप्रधाने भवति । पुत्रेण सहागतः । पुत्रेण सह पिङ्गलः । पुत्रेण सह धनवान् । अत्र प्रधानाप्रधानयोः क्रियागुणद्रव्यसम्बन्धे सति सहयोगः | अर्थग्रहणं किम् ! पुत्रेण सार्द्ध भागतः । पुत्रेण समम् । पुत्रेण साक्रम् । पुत्रेणाभा । " तस्य द्रोणस्य संग्रामः सारणेन गदेन च । युगपत् कोषकामाभ्यां मनीषिण इवाभवत्" | विनाऽपि सहशब्देन तदर्थसंप्रत्ययमात्रे च भवति । "अन्त्येनेताऽदि : ” [1111७३] अन्त्येन सह श्रादिरित्यर्थः । योग इत्येव । शिष्येण सहोपाध्यायस्य गौः । पुत्रेण सह स्थूलो ग्रामें । उपाध्याय शब्दस्य प्रामशब्दस्य च नास्ति सहशब्देन योगः ।
येनाङ्गिविकारेत्थम्भावी || १ |४| ३१ ॥ श्रङ्गिविकारः शरोरविकृतस्त्रम् । अनेन प्रकारेण भवनमिस्भावः । कचिदेव छात्रादौ प्रकारे वृत्तिरित्यर्थः । येनाङ्गिनी विकार इत्थम्भावश्च लक्ष्यते ततो भाविभक्ती भवति । श्रच्णा काव्णः । पाणिना कुणिः । पादेन खञ्जः । इत्थम्भावेऽपि भवान् कमण्डलुना छात्रमद्राक्षीत् । या परिवाजकमद्राचीत् । सहार्थेनेत्यस्याविवक्षायामिदं द्रष्टव्यम् । श्रह्निविकारेत्थम्भावाविति किम् ! अक्षि कारणमस्य वृक्ष प्रति विद्योतते ।
सौ ||१|४|३२|| तात्रित्यर्थनिर्देशः । देवावर्थे भा [च] भवति तद्वाचिनः । अन्नेन वसति । धनेन कुलम् 1 विद्यया यथः । इह लौकिकफलसाधनयोग्य: पदार्थों हेतुग्टह्यते । "तच्चो को हेतुः " [१।२।१२६] इत्यस्य पारिभाषिकस्य प्रयोगे सिद्धत्र भा । उत्तरसूत्रे त्वविशेषण हेतोय इयं द्रव्यम् ।
कर्त्तरि || १ | ४|३३|| हताविति वर्तते । कर्तृ वर्धिते ऋणे हेतौ काविभक्तीत भापयादोऽयम् । शताद्वद्धः । सहस्राद्धः । उत्तमणोऽत्र कर्ता । कर्तरीखि किम् ? बद्धस्त्वया देवदत्तः । नाऽहं बध्नामि । शतं मे धारयति । शतेन बद्धः । बन्धितस्त्वथा देवदत्तः । नाऽहं बन्धयामि शतं मे धारयति । शतेन चन्वितः । कथं देवदत्तेन शर्तेन बन्धितः । एकस्य हेतुकर्तृत्वपरस्य प्रयोज्यकर्तृ लमित्य दोषः । केति योगविभागः । तेन हेतौ काऽपि भवति । कृतकत्वादनित्यः । श्रनुपलब्धेर्नास्तीति ।
गुणे श्रीदत्तस्याऽस्त्रियाम् ||१|४|३४|| देताविति वर्तते । अस्त्रीलिङ्गे गुणे हेतौ श्रीदत्तस्याचास्भतेन कामक्की भवति । अन्येषां मतेन हेताचिति भा । नाच्याद्वद्धः | जाड्येन बद्धः | पारिख्यात्यान्मुक्तः ।
१. व सु० । २. व मु० । ३. कृतम् अ०, ब०, स० ४ मम्यस्य म०, ब० स० । ५. " मिति न दोषः " ० २० ।