SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् म. पा० । सू. ५-११ जोशं कुटिला नदी। योजनं दीर्घः पर्वतः। क्रियया-क्रोशमधीते । योजनमधीते । अविच्छेद इति किम ! मासस्य द्विरधीते । कोशस्यैकदेशे पर्वतः। सिद्धौ भा ॥१॥४॥५॥ अविच्छेद इति वर्तते । सिद्धिः क्रियाफलनिष्पत्तिः । अविच्छेदे यो कालाध्वानी तद्वाचिभ्यां भा भवति सिद्धी गम्यमानायाम् । मासेन प्रामृतमधीतम् | योजनन प्रातमधीतम् । सिद्धाविति किम् ? मासमधील प्राभूतं न चानेनावधारितम् । नात्र क्रिया फलनिष्पत्तिरस्ति पूर्वण इवेव भवति । क्रियामध्ये केपौ ॥शा॥ कालध्वनीति वर्तते । क्रिययो मध्ये यौ कालाध्वानौ ताभ्यां को विभक्त्यो भवतः । अद्य भुक्त्वा मुनि हासोक्ता यहे भोक्ता । इहस्थोऽयमिष्वासः कोशाद् विध्यति क्रोशे विध्यति लक्ष्यम् । चापाच्छरस्य निर्गमनं धानुष्काचस्यानं वा एका क्रिया द्वितीया व्यधनक्रिया तयोमध्ये कोशशब्दात्ता $1&1 i सुः पूजायां न मिति ॥रावा॥ सुशब्दः पूजायामर्थे गिसंशस्तिसंज्ञश्च न भवति । सुस्थितं भवता । मुसित भक्ता। गिसंज्ञाश्रयं षत्व' न भवति | तिसंज्ञाप्रतिषेधे यद्यपि तिसंज्ञाश्रयः सविधिन भवति, तथापि प्रादिलक्षणो भविष्यति । स्वती पूजापामिति वचनात् । सुसिव्य गतः । तस्मादुत्तरार्थ तिसंज्ञाप्रतिपंधवचनम् । पूजायामिति किम् ? सुषिक्तं किं तवाऽत्र ।। अतिक्रमे चाति ॥शक्षा॥ अतिक्रम प्राधिक्यम् । अतिक्रमे पूबायाञ्चातिशब्दो गितिसंज्ञो न भवति । अतिरिक्तमेव भवता । अतिस्तुतमेव भवता । गितिसंशाश्रयः प्रादिलक्षणश्च सविधिन भवति । अतिसितवैव गतः। पूजायाम्-अतिसितमतिस्तुतं भवता । स्वती पूजायामिति प्रादिलक्षणः सविधिः । अतिसिच्य गतः । "प्यस्तिबाक्से क्वः" [ ३३] इत्यत्र तिग्रहामुपलक्षणं प्रादियऽपि प्यादेशः। पदार्थसंभावनाऽनुशागहासमुच्चयेऽपिः ॥९॥ अप्रयुज्यमानस्य पदस्यार्थः पदार्थः । समावनं सामाविष्करणम् | अनुशा अभ्युपममः | गर्दा निन्दा। एकत्रानेकस्य नियोजन समुच्चयः । एतेष्वर्थेष्वपिर्गितिसंशो न भवति । पदार्थे-सर्पिषोऽपि स्यात् । पयसोऽपि स्यात् । बिन्दुः लोक मात्रा चेत्यस्यार्थेऽपिशब्दः । सम्बन्धे च ता । संभावने-अपि सिञ्चन्मूलकसहस्त्रम् | अपि स्तुयाद्राजानम् । अनुज्ञायाम्-- अपि सिश्च । अपि स्तुहि । अतिसमें लोट् । गहीयाम्-घिग बाह्मणमपि सिञ्चत्पलाण्डुम् । अपि स्तुयादपलम् । "अनववस्तुपयम" [२१३।१२३] इति लिङ्क | समुच्चये-अपि सिञ्च | अपि स्तुहि । सिञ्च च हि चेत्यर्थः । गिसंगाश्रयं प्रत्यादिकार्य न भवति ।। अधिपरी अनर्थको शार०॥ ननर्थकावनान्तरस्वाचिनौ । अधि परि इत्यती अनर्थको गितिसंशो न भवतः । कुतोऽभ्यागतः । कुतः पर्यागतः। गितिसंशाश्रय सविधाने न भवति । "प्रार धोस्त" [॥२१॥] शति प्रयोगनियमश्च न भवति । इह च पर्यानद्धामति एवं न भवति ।। वीप्लेथम्भूतलक्षणे भिनेप् ॥१४॥११॥ न गितिरिति वर्तते योग इति च । त्रीप्सा इत्यम्भूत लक्षण इत्येतेश्वर्थेषु अभिना योगे इविभक्ती भवति गितिसंज्ञाप्रतिषेधश्च । वीप्सायाम् – वृक्ष वृक्षमाभसिन्चति । इत्थम्भूते- साधुर्देवदत्तो मातरमभिस्थितः । इत्थम्भावोऽमिना गम्यते 1 लन्नणे-वृक्ष मभिसिञ्चति । वृक्षमभिविद्योतते । गितिसंज्ञापतिपेधात् पत्र "प्रागधोस्ते' [११२।१४५] इति नियमन न भवति । भागे चानुप्रतिपरिण ।।१।४।१२।। भागेऽथे वीप्सेत्याभूतलक्षणेषु च अनु प्रति परि इत्येतांगे प्रत् भवति गितिसंज्ञाप्रतिषेधश्च । भागोऽत्रांशः । यदा मामनुस्यात् मां प्रति स्यात् मा परि स्यात् वहीयताम् । वीप्सायाम- वृक्ष वृक्षम् अनुसिञ्चति प्रतिसिञ्चति परिसिञ्चति । इत्यम्भूते-साधुदेवदत्तः मातरम - - - स.। १. सु २०, मु.। २. चाति भ., स.।।, येऽपि स.। . पर्यानतमिति , १. वृक्षमभिसजति म०,40, स.।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy