________________
अ०] १ पा० ३ सू० ७०-७५ ]
महावृतिसहितम्
अनम् | गुणोक्त्येति किम् ? ईषत्कारकः । ईषद्गार्ग्यः । जात्येकार्थसमवायिक्रियागुणापेक्षया जातैरपि बुद्धिहासी ।
ता ॥ ११३॥७०॥ तान्तं सुत्रन्तेन सह घसो भवति । मोक्षमार्गः । स्वर्गसुखम् | राजपुरुषः |
KE
कृति ॥ १|३|७१|| कृप्रयोगे या ता तदन्ते सुपा सह बसो भवति । "न प्रतिपदम् [११२७३] इति प्रतिषेधं वक्ष्यति । तस्यायं पुरस्तान्निरासः । इध्मनां त्रश्वनः इध्मनश्वनः । पलाशसातनः । श्रविल वनः । श्मश्रुकर्तनः । करणे युट् । “कर्तृकर्मणोः कृति'' [१।४।६८ ] इति ता ।
याजकादिभिः || ११||७२ || याजकादिभिश्र सह तान्तं समस्यते षसो भवति । पूर्वण प्राप्तः तूजकाभ्यां कर्त्तरीति प्रतिषिद्धः पुनरनेन सः । देवानां याजको देवयाजकः । साधूनां पूजकः साधुपूजकः । याजक पूजक परिचारक परिवेषक नापक अध्यापक उद्धर्क्षक उत्सादक होतु भर्तृगणक पतिगणक ।
न प्रतिपदम् ||१ | ३|७३ ॥ प्रतिपदं विहिता वा ता तदन्तं न समस्यते । शेषलक्षणां तां मुक्त्वा सर्वान्याता प्रतिपदविधाना। सर्पिषो ज्ञानम् । पयसो ज्ञानम् 1 "ज्ञो स्वार्थे करणे" [१|४|१८ ] इति ता । इहापि धर्मानुस्मरणम् । धर्मचिन्तनमिति । "स्कार्थदयेश कर्मणि" [1] ४|११ ] इत्यनेन शेषलचणा तानूद्यते । वनस्वामी | वनेश्वरो विद्यादायाद इत्येवमादिषु "स्वामीश्वर" [१]४/४७ ] आदि सूत्रे चकारेण शेषलचणा वा समुच्चयते ।
निर्धार || १ |३|७४ || निर्धारणे या ता तदन्तं न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य निष्कृष्य चारणं पृथक्करणं निर्धारणम् । क्षत्रियो मनुष्याणां शूरतमः । श्वामा नारीणां दर्शनीयतमा | कृष्णा गवां सम्पन्नक्षीरतमा | धावन्तोऽध्वगानां मितमाः । क्षत्रियादिशब्देन सह वृप्तिर्न भवति । "यता निर्धा राम" [ १।४।४३] इति चकारेण शेषलक्षणायास्तायाः समुच्चयः । प्रतिपदविधानत्वे हि पूर्वयोव सिद्धः प्रतिवेध इतीदमनर्थकं स्यात् । इह पुरुषेश्वर इति शेषलक्षणा ता विवक्षिता न निर्धारणलक्षणा ।
डड् गुणसृतार्थं सराव्यैकद्रव्यैः || १ | ३२७५ ॥ उदन्त गुणार्थं तृप्तार्थं सत्संश' तव्य एकद्रव्य इत्येतेः सह तान्तं न समस्यते । तस्य पूरखे वद्दित्यतः प्रभृति तमदृष्टकारेण वडिति प्रत्याहारः । चक्रधराणां पञ्चमः । तीर्थंकराणां षोडशः । बलदेवानां नवमः । समुदायसमुदितसम्बन्धे शेषलक्षणा ता । गुणार्थ:- चलाकायाः शौक्ल्यम् । काकस्य कार्यम् । कण्टकस्य वैदण्यम् । गुणगुणिसम्बन्धे ता । " एक पररूपम् [४/३/८१] इत्यत्र परस्य रूपं पररूपमिति वृत्तिपदं ज्ञापकं यो गुप्यद्वारे पूर्व द्रव्ये वृत्तो भवत्यन्ते गुणमाह तेन गुणशब्देनेह प्रतिषेधः । यस्तु सर्वदा गुणवचनस्तेन वृत्तिर्भवत्येव । इस्तिरूपम् । कपित्थरस: | चन्द्रनगन्धः । श्रग्निस्पर्शः । गुणशब्देनेह लोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेताः । ततस्तद्विशेष्यैरय प्रतिषेधः तेन यत्नगौरवं सूत्रलाघवं करणपाटवं वचनप्रामाण्यं गोविंशतिरित्येवमादिषु न प्रतिषेधः । वृषलस्य धाष्टर्यमित्यत्र वृत्तेरनभिधानम् । तृतार्थः - फलानां तृतः । सक्कनां पूर्णेः । फलानां सुहितः । सक्तनां प्रीतः । " तृप्यर्थे तपसंख्यानम्" [बा०] इति ता । सदिति शतृशानयोः संज्ञा । चोरस्य द्विषन् । "कर्तृकर्मणोः कृति" [ २४/६८ ] इति कर्मणि ता प्राप्ता न वि० [१।३।७२] इत्यादिना प्रतिषिद्धः । द्विषः शतुर्वा वचनम्” [ वा ] इति ता । इह तु शेषलक्षणा वा । देवदत्तस्य कुर्वन् । देवदत्तस्य कुर्वाणः । तव्यः - देवदत्तस्य कर्तव्यम् । जिनदत्तस्य कर्तव्यम् । अत्रापि "ध्यस्य वा करि" [11४/७५] इति शेषलक्षणा ता । तव्येन केन्विद्विकल्पमिच्छन्ति । देवदत्त कर्तव्यम् । एकं द्रव्यमस्य एकद्रव्यम् । राज्ञः पाटलिपुत्रकस्य । शुकस्य मारविदस्य । श्राचायेस्य श्रीदत्तस्य । पूर्वनिपातस्थानियमः प्रसज्येत । विशेषणादिसूत्रे इतिशब्दोऽस्ति तेन नीलस्योत्पलस्य नीलो
1. पूर्वनिपातस्येत्यादि न भवतीत्यन्तसन्दर्भस्यायमभिप्राय:
"एकव्ये तसाङ्गीकारे उभयोः पदयोस्तान्तत्वेन वोकात्पूर्वनिपातस्या नियमः प्रसज्येत । ननु नीलोत्पलस्य नीलोत्पथस्येत्यन्न कद्रव्यत्वेन वासनिषेधः कुतो न गुणगुणिभावस्थले एकद्रव्यस्वानङ्गी