________________
-
९..
इप्रकरणम् ।
१३९
मट गां चानय' इत्यन्यतरस्यानुषङ्गिकत्येनात्वयोऽन्वाचयः । परस्परसापेक्षाणामघयत्रभेदानुगतः सम्बन्ध इतरेतरयोगः । अनपेक्षितावयवभेदः संहतिप्रधानः समाहारः । ( १ ) अनयोर सामर्थ्यान सविधिः । (२ इतरेतरयोगे । लक्षत्यग्रोधी छायां कुरुतः। (३ समाहारे नय् । ग्लक्षन्य श्रोत्रम् | राजदन्ता दौ १ । ३ । ९६। एषु पूर्वप्रयोगार्हं परं प्रयोकव्यं । दन्तानां राजा (४) राजदन्तः (पचिद्यपत्ययोऽपि ) शब्दार्थो । अर्थशब्दौ । - सु । १ । ३ । ९८ । द्वे स्वन्तं पूर्व प्रयोक्तव्यं मुनिगुप्तश्चमुनिगुतौ । अजायत । १ । ३ । ९९ । अजाधदन्तं द्वन्द्वे पूर्व प्रयोक्तव्यम् । इन्द्रचन्द्रो । अल्पाघू तरम् ।
(१) समुचयान्वाचयोरेकत्रैक धर्मावच्छिन्नावच्छिनान्वरूपसहविवक्षा रूपसामर्थ्या भावात्सविधिर्नस्यादितिभावः । ( २ ) अन्योन्यापेक्षयैक क्रियासम्बन्ध इतरेतरयोगः | अत्रे तरेतरयोगे परस्परापेक्षयोद्भूतावयवभेदसमूहत्वेन यथा यथं द्विवचन बहुवचनेभषतः ।
(३) समूहः समाहारः । अत्र समाहारे परस्परापेक्षतिरोहिताचयवभेद समूहत्वेन समूहस्यैव प्रधानत्वेनैकवचनमेव भवति ।
( ४ ) राजदन्तास्तु चत्वारोशनानां पुरः स्थिताः । इति त्रिकाण्डशेषः । द्वैमेतुराजदन्तौ तु मध्यस्थावुपरिश्रेणिकी क्वचित् । इत्युपत्तभ्यते ।