________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
शान-प्रदीपिका।
अथ नौकाण्डः। जलराशिषु लग्नेषु शुक्रजीवेन्दवो यदि । पोतस्यागमनं ब्रू यादशुभश्चेन्न सिद्धयति ॥१॥ प्रारूढछत्रलग्नेषु वीक्षितेष्वशुभग्रहैः । पोतभंगो भवेन्नीचशत्रु भिर्वा तथा भवेत् ॥२॥ पृष्ठोदयग्रहर्लग्ने संदृष्टे नौवजेत्स्थलम् । तद्ग्रहे तु यथा दृष्टे तथा नौदर्शनं वदेत् ॥३॥ चरराश्युदये छत्रो दूरमायाति नौस्तथा। चतुर्थे पञ्चमे चन्द्रो यदि नौः शीघ्रमेष्यति ॥४॥ द्वितीये वा तृतीये वा शुक्रश्चेन्नौसमागमः । अनेनैव प्रकारेण सर्व वीक्ष्य वदेद्बुधः ॥५॥
इति नौकाण्डः।
इति ज्ञानप्रदीपिकानाम ज्योतिषशास्त्रम् सम्पूर्णम् ।
For Private and Personal Use Only