________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका।
B
अथ वृष्टिकाण्डः । जलराशिषु लग्नेषु जलग्रहनिरीक्षणे । कथयेवृष्टिरस्तीति विपरीते न वर्षति ॥१॥ जलराशिषु शुक्रन्दू तिष्ठतो वृष्टिरुत्तमा । जलराशिषु तिष्ठन्ति शुक्रजीवसुधाकराः ॥२॥ प्रारूढोदयराशी चेत् पश्यन्त्यधिकवृष्टयः । एते स्वक्षेत्रमुच्चं वा पश्यन्ति यदि केन्द्रभम् ॥३॥ त्रिचतुर्दिवसादन्तर्महावृष्टिर्भविष्यति । लग्नाच्चतुर्थ शुक्रस्यात्तहिने वृष्टिरुत्तमा ॥४॥ क्षत्रे पृष्ठोदये जाते पृष्ठोदयग्रहेक्षिते । तत्काले परिवेशदिदृष्टे वृष्टिर्महप्तरा ॥५॥ केन्द्रषु मन्दभौमशराहवो यदि संस्थिताः। वृष्टिर्नास्तीति कथयेथवा चण्डमारुतः ॥६॥ पापसौम्यविमित्रैश्च अल्पवृष्टिः प्रजायते। चापस्थौ मन्दराहू चेत् वृष्टिर्नास्तीति कीर्तयेत् ॥७॥ शुक्रकार्मुकसन्धिश्चेद्धारावृष्टिर्भविष्यति ।
इति वृष्टिकाण्डः।
अथ अर्यकाण्डः। उच्चन दृष्टे युक्त वात्यय॑ वृद्धिर्भविष्यति । नीचेन युक्ते दृष्टे वा स्यादर्शाक्षय ईरितः ॥१॥ मित्रस्वामिवशात् सौम्यामित्र ज्ञात्वा वदेत्सुधीः । शुभग्रहयुते वृद्धिरशुभैरर्यनाशनम् ॥२॥ पापग्रहयुते दृष्टे त्वय॑वृद्धिक्षयो भवेत् ॥
इति अगेकाण्डः।
For Private and Personal Use Only