________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका
पृष्ठोदये तु गमनं क्रमेण शुभदं वदेत् ॥६॥ द्वितीये च तृतीये च तिष्ठन्ति यदि पुंग्रहाः । त्रिदिनात्पत्रिकायाति दूतो वा प्रेषितस्य च ॥१०॥ लग्नार्थ सहजव्योमलाभेष्विन्दुशभार्गवाः । तिष्ठन्ति यदि तत्काले चावृत्तिः प्रोषितस्य च ॥११॥ शुभदृष्टे शुभयुते जीवे वा केन्द्रमागते । बुधजीवौ त्रिकोणे वा प्रोषितागमनं वदेत् ॥१२॥ चतुर्थे द्वादशे वापि तिष्ठन्ति चेच्छुभग्रहाः । पत्रिका प्रोषिताद्वार्ता समायाति न संशयः ॥१३॥ षष्ठे वा पञ्चमे वापि यदि पापग्रहाः स्थिताः। प्रोषितो व्याधिपीडार्थ समायाति न संशयः ॥१४॥ चापोक्षछागसिंहेषु यदि तिष्ठति चन्द्रमाः । चिन्तितस्तत्तदायाति चतुर्थ चेत्तदागमः ॥१५॥ स्वोश्वस्वर्तषु तिष्ठन्ति शुक्रजीवेन्दुसोमजाः। प्रयाणागमनं ब्रूयात् तत्तदाशासु सर्वदा ॥१६॥ ग्रहाः स्वक्षेत्रमायान्ति यावत्तावत्फलं वदेत् । प्रहगृहं प्रविष्टे वा पृष्ठतोऽपि प्रहं गतः ॥१७॥ चतुर्थान्तान्तारगतः मार्गमध्ये फलं वदेत् । मध्यान्तरगतेर्वाच्यं गजदेशे शुभावहम् ॥१८॥ शुभग्रहवशात्सौख्यं पीड़ां पापग्रहैर्वदेत् । सप्तमाष्टमयोः पापास्तिष्ठन्ति यदि च ग्रहाः ॥१॥ प्रोषितो हृतसर्वस्वस्तौव मरणं व्रजेत् षष्ठे पापयुते मार्गगामी बद्धो भविष्यति ॥२०॥ जलराशिस्थिते पापे चिरेणायाति चिन्तितः। इति ज्ञात्वावदेद्धीमान् शास्त्र ज्ञानप्रदीपके ॥२१॥
इति यात्राकाण्डः।
For Private and Personal Use Only