SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शा-नप्रदीपिका। एवं प्रहस्थितिवशात् पूर्ववत् कथयेद्बुधः। प्रहोदये विशेषोऽस्ति शन्या गारकोदये ॥१५॥ आगतस्य जयं ब्रूयात् स्थायिनो भंगमादिशेत् । बुधशुक्रोदये सन्धिः जयी स्थायी गुरुदये ॥१६॥ पंचषट्लाभरिस्फेषु तृतीयेऽर्किः स्थितो यदि । आगतः स्त्रीधनादीनि हृत्वा वस्तूनि गच्छति ॥१७॥ द्वितीये दशमे सौरिः यदि सेनोसमागमः । यदि शुक्रस्थितः षष्ठे योग्यसन्धिर्भविष्यति ॥१८॥ चतुर्थे पञ्चमे शुक्रो यदि तिष्ठति तत्क्षणात् । स्त्रीधनादीनि वस्तूनि यायी दत्त्वा प्रयास्यति ॥१९॥ सप्तमे शुक्रसंयुक्त स्थायी भवति दुर्लभः । नवाष्टसप्तसहजान् विनान्यत्र कुजो यदि ॥२०॥ स्थायी विजयमाप्नोति परसेनासमागमे । चन्द्र षष्ठे स्थितो वापि परसेनासमागमः ॥२१॥ चतुर्थे पञ्चमे चन्द्र यदि स्थायी जयी भवेत् । तृतीये पञ्चमे भानुः यदि सेनासमागमः ॥२२॥ मित्रस्थानस्थितः सन्धि!चेत् स्थायी जयो भवेत् । चतुर्थे वित्तदः स्थायी रिसे तु स्थायिनो मृतिः ॥२३॥ उदयात् सहजे सौम्ये द्वितीये यदि भास्करः । स्थायिनो विजयं ब्रूयात् व्यत्यये यायिनो जयम् ॥२४॥ ससौम्ये भास्करे युक्त समं युद्ध वदेद्बुधः। लग्नात्पञ्चमगे सौम्ये यायी भवति चार्थदः ॥२५॥ द्वित्रिस्थे सोमजे यायी विजयी भवति ध्रुवम् । दशमैकादशे रिस्फे स्थायी विजयमेष्यति ॥२६॥ अर्कलाभस्थिते यायी हतशस्त्रः सबान्धवः। शत्रु नीचस्थित सूर्ये स्थायिनो भङ्गमादिशेत ॥२॥ उदयात्पश्चमे भ्रातृव्ययेषु धिषणो यदि । यायी भंगं समायाति द्वितीये सन्धिरुच्यते ॥२८॥ दशमैकादशे जीवो यदि यात्यर्थदो भवेत्। चन्द्रादित्यौ समस्थाने सन्धिः स्यात्तिष्ठतो यदि ॥२६॥ For Private and Personal Use Only
SR No.090186
Book TitleGyan Pradipika
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherNirmalkumar Jain
Publication Year1934
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy