________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका।
अथ सेनाकाण्डः। सेनस्यागमनं वक्ष्ये शत्रोरागमनं तथा । चरोदये चरारू पापाः प्रञ्चमगा यदि ॥१॥ सेनागमनमस्तीति कथयेच्छास्त्रवित्तमः । चतुष्पादुदये जाते युग्मे राभ्युदयोऽपि वा ॥२॥ लग्नस्याधिपतौ वक्र सेना प्रतिनिवर्तते। आरूढादुदयाः कुम्भकुलीरालिझषा यदि ॥३॥ चरोदये चरारूढे भौमार्किगुरवो यदि । चतुर्थ केन्द्र बलिनो यदि सेना निवर्तते ॥४॥ तिष्ठन्ति यदि पश्यन्ति सेना याति महत्तरा। आरूढे स्वामिमित्रोच्चाहयुक्त ऽथ वीक्षिते ॥५॥ स्थायिनो विजयं ब्र यात् यायिनश्च पराजयम् । एवं छो विशेषोऽस्ति विपरीते जयो भवेत् ॥६॥ श्रारूढे बलसंयुक्त स्थायी विजयमाप्नुयात् । यायी विजयमाप्नोति छत्रे बलसमन्विते ॥७॥ आरूढे नीचरिपुभिम्र हैर्युक्तऽथ वीक्षिते। स्थायी परगृहीतस्य छनऽप्येवं विपर्यये ॥८॥ शुभोदये तु पूर्वाह्न यायिनो विजयोभवेत् । शुभोदये तु सायाह्न स्थायी विजयमाप्नुयात् ॥६॥ छनारूढादये वापि पुंराशौ पापसंयुते । तत्काले पृच्छतां सद्यः कलहो जायते महान् ॥१०॥ पृष्ठोदये तथारूढे पापैर्युक्त ऽथ वीक्षिते। दशमे पापसंयुक्त चतुष्पादुद्येऽपि वा ॥११॥ कलहो जायते शीघ्र सन्धिः स्याच्छुभवीक्षिते। दशमादाशिषट्केषु शुभराशिषु चेत् स्थिताः ॥१२॥ स्थायनो विजयं ब्रूयात् तव चेन्द्रियोर्जयम् । पापग्रहयुते तद्वन्मिश्रे सन्धिः प्रजायते ॥१३॥ उभयत्र स्थिताः पापाः बलवन्तः समो जयः । तुर्यादिराशिभिषड्भिरागतस्य फलं वदेत् ॥१४॥ (तदन्य राशिभिः षड्भिः स्थायिनः फलमादिशेत् )
For Private and Personal Use Only