________________
Shri Mahavir Jain Aradhana Kendra
३२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान- प्रदीपिका ।
रनिर्गुणित्वा नवभिर्नखात तालमुच्यते ॥७॥ तत्प्रादेशं प्रगुण्यांङ्कतं विंशतिभिर्यदि । शेषमङ्गुलमेवोक्त' रत्निप्रादेशमङ्गुलम् ॥ ॥ एवं क्रमेणरत्नाद्यमगाधं कथयेद्बुधः । केन्द्रषु पापयुक्तेषु पृष्टं शल्यं न दृश्यते ॥ ॥ शुभग्रहयुतेष्वेषु शल्यं तत्र प्रजायते । पापसौम्ययुते केन्द्र शल्यमस्तीति निर्दिशेत् ॥ १०॥ रविः पश्यति चेद्दवं कुजश्च ब्रह्मराक्षसान् । केन्द्र चन्द्रारसहिते कुजन क्षत्रको ॥११॥ श्वशल्यं विद्यते तत्र केन्द्र जीवेन्दुसंयुते । जीवस्थोडुगते कोष्ठे स्वर्णगोपुरुवास्थिनी ||१२|| केन्द्र बुधेन्दुसंयुक्त बुधनक्षत्रकेाष्टके । वशल्यं विद्यते तत्र केन्द्र शुक्रेन्दुसंयुते || १३|| शुक्रस्थितके कोष्ठे रौप्यं श्वेतशिलापि वा । बुधारूढकेन्द्र स्वर्भानुर्यदि तिष्ठति ॥ १४ ॥
षु
राहुतायुते कोष्ठे वल्मीकं समुदीरयेत् । शुभाः केन्द्र गताः पापैः पश्यति बलिभिर्यदि ॥ १५॥ तदा नीचारियुक्ताश्च तत्र शल्यं न विद्यते । शुक्रेन्दुजीव सौम्याश्च केन्द्रस्थानगता यदि ॥ १६ ॥ तत्रैव दृश्यते शल्यं कण्टकस्थाः शुभं वदेत् । स्वक्षेत्रोच्चगताः सौम्याः लग्नकेन्द्रगता यदि ॥ १७ ॥ तत्वे विद्यते शल्यं तेषु पापा यदि स्थिताः । देवपक्षिपिशाचाद्यास्तव तिष्ठन्त्यसंशयम् ॥१८॥ ग्रहांशुसंख्यया तेषां खातमानं वदेत् सुधीः । पञ्चषवसुभूतानि सपादेकं तथैव च ॥ १६ ॥ सार्धरूपात्तोरवयः सूर्यादीनां कराः स्मृताः । स्वशल्यगाधमनेनैव करेण परिमाणयेत् ||२०||
इति शल्यकाण्डः ।
For Private and Personal Use Only