________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका।
अथ कूपकाण्डः । अथ वक्ष्ये विशेषेण कूपखातविनिर्णयम् । आयामे चाष्टरेखाः स्युस्तीर्यग्र खास्तु पञ्च च ॥१॥ एवं कृते भवेत्कोष्ठा अष्टाविंशतिसंख्यकाः । प्रभाते प्राङ्मुखो भूत्वा कोष्ठेष्वेतेषु बुद्धिमान् ॥३॥ चक्रमालोकयेद्विद्वान् राना दुत्तराननः । मध्याह्न मुखमारभ्य मैत्रभाद्य निशामुखे ॥३॥ ईशकोष्ठद्वयं त्यक्त्वा तृतीयादित्रिषु क्रमात् । कृतिकादित्रयं न्यस्यं तद्धो रौद्रभं न्यसेत् ॥४॥ तदुत्तरं त्रयेष्वेव पुनर्वस्वादिकं त्रयम् । तत्पश्चिमादियाम्येषु मघाचित्रावसानकम् ॥५॥ तत्पूर्वकोष्ठयोः स्वातीविशाखे न्यस्य तत्परम् । प्रदक्षिणक्रमादग्निनक्षत्रान्ताश्च तारकाः ॥६॥ मध्याह्न दक्षिणाशास्यः पश्चिमास्यो निशामुखे । अर्द्धराजो धनिष्ठाद्य पूर्ववत् गणयेत् क्रमात् ॥७॥ आग्नेय्यां दिशि नैर्मृत्यां वायव्यां कोष्ठकद्वयम् । त्यक्त्वा प्रत्येकमेवं हि तृतीयाद्य विलेखयेत् ॥८॥ दिनार्ध सप्तभिह त्वा तल्लब्धं नाडिकादिकम् । शात्वा तत्तत्प्रमाणेन कृतिकादीनि विन्यसेत् ॥६॥ यन्नक्षत्रं तदा सिद्ध प्रश्नकाले विशेषतः। कृतिकास्थानमारभ्य पूर्ववद्गणयेत्सुधीः ॥१०॥ यत्कोष्ठे चन्द्रनक्षत्रं तत्रोदयनमालिखेत् । तदादीनि क्रमेणैव पूर्ववद्गणयेत्सुधीः ॥११॥ योन्दु श्यते तत्र समृद्धमुदकं भवेत् । जीवनक्षत्रकोष्ठेषु जलमस्तीत्युदाहरेत् ॥१२॥ तुलोक्षनककुम्भालिमीनकालिराशयः । जलरूपास्तदुदये जलमस्तीति निर्दिशेत् ॥१३॥ तनस्थौ शुक्रचन्द्रौ चेदस्ति तत्र बहूदकम् । खुधजीवोदये तन किञ्चिजलमितीरयेत् ॥१४॥ एतान् राशीन् प्रपश्यन्ति यदि शन्यर्कभूमिजाः ।
For Private and Personal Use Only