SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान-प्रदीपिका। प्रदर्शितस्य खड्गस्य लग्ने वा पापसंयुते । खड्गस्यादावृणं ब्रूयात् त्रिकोणे पापसंयुते ॥५॥ शस्त्रभङ्गस्थितो व्योम्नि चतुर्थे पापसंयुते। खड्गस्य भंगा मध्ये स्यादिति ज्ञात्वा वदेत्सुधीः ॥६॥ एकादशे तृतीये च पापे शस्त्राग्रभंजनम् । मित्रस्वाम्युञ्चनीचादिवर्गानधिगताग्रहाः ॥७॥ तत्तद्वर्गस्थलायातं शस्त्रमित्यभिधीयते ।। सम्मुखे यदि खड्गः स्यात्तदीयं खड्गमुच्यते ॥८॥ तिर्यग्मुखश्चेत्तच्छस्त्रमन्यशस्त्र वदेत्सुधीः । अधोमुखश्चेत्संग्रामेच्युतमाहृतमुच्यते ॥६॥ तत्तच्चेष्टानुरूपेण स्वान्याहरणविस्मृतिः। ग्रहपाकापभेदेन शास्त्र ज्ञानप्रदीपके ॥१०॥ इति क्षुरिकाकाण्डः अथ शल्यकाण्डः । शल्यपने तु तत्काले पादभावसुनेत्रयुक् । अर्वाता नृपैर्भक्ता शेषाणां फलमुच्यते ॥१॥ कपालास्थीष्टकालोष्टा काठदैवविभूतयः। सर्वाङ्गारकधान्यानि स्वर्णपाषाणदर्दुराः ॥२॥ गोऽस्थिश्वास्थिपिशाचादिक्रमाच्छल्यानि षोडश । येषु शल्येषु मण्डूकस्वर्णगोस्थितधान्यकाः ॥३॥ दृष्टाश्च दुत्तमं चान्ये सरे स्थुरशुभाः स्थिताः । अष्टाविंशतिकोष्ठेषु वह्निदिष्ट्यादिकं न्यसेत् ॥४॥ यत्र भे तिष्ठति शशो तत्र शल्यमुदाहृतम् । उदयादिकं न्यस्येदष्टाविंशतिकोष्ठके ॥५॥ गणयेचन्द्रनक्षत्रं तत्र शल्यं प्रकीर्तितम् । शंकास्थलस्य विस्तारौ योमावन्योन्यताडितौ ॥६॥ विंशत्यापहृतं शिष्टमरनिरिति कीसितम् । For Private and Personal Use Only
SR No.090186
Book TitleGyan Pradipika
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherNirmalkumar Jain
Publication Year1934
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy