________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान- प्रदीपिका ।
पापास्तिष्ठन्ति चेन्मातुर्मरणं भवति ध्रुवम् ॥२॥ पञ्चमे यदि पापाः स्युर्जातः पुढो विपद्यते । द्वादशे चन्द्रसंयुक्ते पुलवामा क्षिनाशनम् ॥३॥ व्ययस्थे भास्करे नश्येत् पुत्रदक्षिणलोचनम् । पापाः पश्यन्ति भानुं चेत् पितुर्मरणमादिशेत् ||४|| चन्द्रेण युक्त दृष्टे वा मातुर्मरणमादिशेत् । चन्द्रादित्यो गुरुः पश्येत् पित्रोः स्थितिमितीरयेत् ॥५॥ यदि लागतो राहुजीवदृष्टिविवर्जितः । जातस्य मरणं शीघ्र भवेदल न संशयः ॥ ६॥ arratri saharst नेत्रयुग्मं विनश्यति । षष्ठे वा पञ्चमे पापाः पश्यन्तीन्दुदिवाकरौ ॥७॥ पित्रोर्मरणमेवास्ति तयोर्मन्दः स्थितो यदि । भ्रातृनाशं तथा भौमै मातुलस्य मृति वदेत् ॥ ॥ उदयादिदिकस्थेषु कण्टकेषु शुभा यदि । featarत्युच्चवर्गेषु सर्वाधिं विनश्यति ॥ ॥ लग्नञ्च चन्द्रलग्नञ्च जीवो यदि न पश्यति । पापाः पश्यन्ति चेत्पुत्रो व्यभिचारेण जायते ॥ १० ॥ इति ज्ञात्वा वदेद्धीमान् शास्त्र ज्ञानप्रदीपके । इति सुतारिकाण्ड: ।
अथ क्षुरिकाकाण्ड |
क्षुरिक लक्षणं सम्यक् प्रवक्ष्यामि यथा तथा । राहुणा सहिते चन्द्र शत्रु भंगो भविष्यति ॥ १ ॥ नीचारिस्थास्तु पश्यन्ति यदि खड्गस्य भंजनम् । शुभग्रह चन्द्र द्वष्टे शास्त्रं शुभं वदेत् ॥२॥ पापग्रहसमे तेषु छत्रारूढादयेषु च । तेषु दृष्टः स्थितः किन्तु तदस्त्रेण हतो भवेत् ॥३॥ अथवा कलहः खङ्गः परेणापहृता भवेत् । तेषु स्थानेषु सौम्येषु खड्गस्तु शुभदो भवेत् ॥४॥
For Private and Personal Use Only