SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ज्ञान -प्रदीपिका । अथ पुत्रोत्पत्तिकाण्डः । पुत्रोत्पत्तिनिमित्तेषु प्रश्ने स्त्रीभिः कृते सति । छत्रारूढोदये जीवो राहुश्चेद्गर्भमादिशेत् ॥१॥ लग्नist चन्द्रलग्नाा त्रिकाणे सप्तमेऽपि वा । बृहस्पतिः स्थिता वापि यदि पश्यति गर्भिणी ॥२॥ शुभवर्गेण युक्तश्चेत् सुखप्रसवमादिशेत् । अरिनीचग्रहैर्युक्त सुतारिष्टं भविष्यति ॥३॥ प्रश्नकाले तु परिधौ दृष्टे गर्भवती भवेत् । तदन्तस्थग्रहवशात् पुंस्त्रीभेदं वदेद्बुधः ॥४॥ यत्र तत्र स्थितश्चन्द्रः शुभयुक्त े तु गर्भिणी । लग्नाचिनवभूतेषु शुक्रादित्येन्दवः क्रमात् ॥५॥ तिष्ठन्ति चेन्न गर्भः स्यादेकत्रैते स्थितान् च । स्त्रीपुंविवेके गर्भिण्यः पृष्टे वा तत्त्रकालिके ॥६॥ परिवेपादिकैः द्वष्टे तस्या गर्भो विनश्यति । लग्नादो स्थिते चन्द्र पुत्र सूते समे सुताम् ॥७॥ वशान्नक्षत्रराशीनां यथा योगं सुतं सुताम् । लग्नतृतीयनवमे सप्तमैकादशेऽपिवा ॥ ५ ॥ भानुः स्थितश्चेत् पुत्रः स्यात्तथैव च शनैश्चरः । ओजस्थानगताः सर्वे ग्रहाचेत्पुत्र संभवः || || समस्थानगताः सर्वे यदि पुत्री न संशयः । श्रारूढात्सप्तमं राशि यावच्छीतांशुरेष्यति ॥१०॥ तावन्नक्षत्रसंख्याकैः सा सूते दिवसे सुतम् ॥ इति पुत्रोत्पत्तिकाण्ड: । अथ सुतारिष्टकाण्डः । सुतारिष्टमथो वक्ष्ये सद्यः प्रत्ययकारणम् । लग्नषष्ठे स्थिते चन्द्र तदस्ते पापसंयुते ॥१॥ मातुः सुतस्य मरणं किन्तु पञ्चमषष्ठयोः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.090186
Book TitleGyan Pradipika
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherNirmalkumar Jain
Publication Year1934
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy