________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शा-नप्रदीपिका। शुभग्रहा द्वितीयस्था माङ्गल्यायुष्यवर्द्धना । तृतीये रविराहू चेत्सा वन्ध्या भवति ध्रुवम् ॥५॥ अन्ये तृतीयराशिस्था धनसौभाग्यवर्द्धना । चतुर्थेऽर्कनिशानायौ तिष्ठतो यदि पापिनौ ॥६॥ शनिश्च स्तन्यहीना स्यादहिः सा पत्नवत्यसौ । बुधजीवारशुक्राश्चेत् अल्पजीवनवत्यसौ ॥७॥ पंचमे यदि सौरिः स्याद् व्याधिभिः पीडिता भवेत् । शुक्रजीवबुधाः स्युश्चेद्वहुपुत्रवती भवेत् ॥८॥ चन्द्रादित्यौ तु वन्ध्या स्यात् अहिश्चेन्मरणं भवेत्। आरश्चे पुत्रनाशः स्यात् प्रश्ने पाणिग्रहोचिते ॥६॥ षष्ठे शशी चेद्विधवा बुधः कलहकारिणी । षष्ठे तिष्ठति शुक्रश्चेदीर्घमाङ्गल्यधारिणी ॥१०॥ अन्ये तिष्ठन्ति न्यारी सुखिनी वृद्धिमिच्छति । सप्तमस्थे शनौ नारी लरसा विधवा भवेत् ॥११॥ परेणापता याति कुजे तिष्ठति सप्तमे । बुधजीवौ सन्मतिः स्याद्राहुश्चेद्विधवा भवेत् ॥१२॥ व्याधिग्रस्ता भवेन्नारी सप्तमस्थो रविर्यदि । सप्तमस्थे निशाधीशे ज्वरपीडादती भवेत् ॥१३॥ शुक्रश्चेत्पुलसिद्धिः स्यात्सा वधूभरणं व्रजेत् । अष्टमस्थाः शुक्रगुरुभुजगा नाशयन्ति च ॥१४॥ शनिशौ वृद्धिदौ भौमचन्द्रौ नाशयतः स्त्रियम् ।
आदित्यारौ पुनर्भूः स्यात्वश्ने वैवाहिके वधूः ॥१५॥ नवमे यदि सोमः स्याल् व्याधिहीना भवेद्वधूः । जीवचन्द्रौ यदि स्वाता बहुपुत्रवती वधूः ॥१६॥ अन्ये तिष्ठन्ति नबमे यदि बन्थ्यो न संशयः। दशमे स्थानके चन्द्रो बन्ध्या भवति भामिनी ॥१७॥ भार्गवो यदि वेश्या स्यात् विधार्षिकुजावुभौ। रिक्ता गुरुश्वेज्ञादित्यौ यदि तस्याः शुभं वदेत् ॥१८॥ लाभस्थानगताः सर्वे पुत्रसौभाग्यवर्द्धकाः । लग्नद्वादशगश्चन्द्रो यहि स्यान्नाशमादिशेत् ॥१६॥
For Private and Personal Use Only