________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
ज्ञान-प्रदीपिका।
अथ निमित्तकाण्डः। अयोभयर्ने पथिको दुनिमित्तानि पश्यति । स्थिरोदये निमित्तानां विरोधेन न गच्छति ॥१॥ चरोदये निमित्तेन समायातीति निर्दिशेत् । चन्द्रोदये दिवाभीतशशपारावतादयः ॥२॥ शकुनं भवता दृष्टमिति बयाद्विचक्षणः। राहूदये तथा काकभारद्वाजादयः खगाः ॥३॥ मन्दोदये कुलिंगः स्यात् ज्ञोदये पिंगलस्तथा। सूर्योदये च गरुड़ः शुक्रः सव्यवशाद्वदेत् ॥४॥ स्थिरराशौ स्थिरान् पश्येत् चरे तिर्यगतांस्तथा । उभयेऽध्वनि वृद्धिः स्यात् ग्रहस्थितिवशाद्वदेत् ॥५॥ राहोर्नेलिवियोश्चात्र शस्य चूचुन्दरी भवेत् । दधिशुक्रस्य जीवस्य क्षीरसर्पिरुदाहरेत् ॥६॥ भानोश्च श्वेतगरुड़: शिवा भौमस्य कीर्तिता। शनैश्चरस्य वह्निश्च निमित्तं दृष्टमादिशेत् ॥७॥ शुक्रस्य पक्षिणौ व यात् गमने शरटान् बकान् ।। जीवकाण्डप्रकारेण पक्षिणोऽन्यान्विचारयेत् ॥८॥
इति निमित्तकाण्डः
अथ विवाहकाण्डः।
प्रश्ने वैवाहिके लग्ने कुजसूर्यावुभौ यदि। वैधव्यं शीव्रमायाति सा बधूर्नेति संशयः ॥१॥ उदये मन्दगे नारी रिक्ता मृतसुता भवेत् । चन्द्रोदये तु मरणं दम्पत्योः शीघ्रमेव च ॥२॥ शुक्रजीवबुधा लग्ने यदि तौ दीर्घजीविनौ । द्वितीयस्थे निशानाथे बहुपुत्रवती भवेत् ॥३॥ स्थिता यद्यर्कमन्दारा मनः शोको दरिद्रता । द्वितीये राहुसंयुक्त सा भवेत् व्यभिचारिणी ॥४॥
For Private and Personal Use Only