________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान-प्रदीपिका
पृष्ठोदये दिनाधीशे विधौ मानुष्यदर्शनम् । मेषोदये दिनाधीशे ज्ञातदेहस्य दर्शनम् ॥२॥ वृषभस्योदयेऽर्कारौ व्याकुलान्मृतदर्शनम् । मिथुनस्योदये विप्रान् तपरिववदनानि च ॥३॥ कुलीरस्योदये क्षेत्र शस्यं दृष्ट वा पुनर्ग्रहम् । तृणान्यादाय हस्ताभ्यां गच्छन्तीति विनिर्दिशेत् ॥४॥ सिंहोदये किरातञ्च महिषीं गिरिपन्नगम् । कन्योदयेऽपि चारूढे मुग्धस्त्रीकन्यकाबधूः ॥५॥ तुलोदये नृपान् स्वर्ण वणिजञ्च स पश्यति । वृश्चिकस्योदये स्वप्न पश्यन्त्यलिभृगानपि ॥६॥ वृषाश्चौ च तथा ब्रूयात् स्वप्नं दृष्ट्वा न शंकितः । उदये धनुषः पश्येत् पुष्पं पन फलाफले ॥७॥ मृगोदये नदीनारीपुंसः स्वप्नेषु पश्यति । कुम्भोदये च मकरं मीने स्वर्ण जलाशयम् ॥॥ चतुर्थे तिष्ठति भृगौ राजतं वस्तु पश्यति । फुजश्चेन्मांसरक्तांश्च सशुक्रफलमंगनाः ॥३॥ मृगाः शनिश्चत् सौम्यश्चेत् पशुन् स्वप्न तुपश्यति । प्रादित्यश्च न्मृतान् पुंसः पतनं शुष्कशाखिनाम् ॥१०॥ चन्द्रश्चेत्सवनं सिन्धौ राहुमध्यविषं भवेत् । अत्र कश्चिद्विशेषोऽस्ति छत्रारूढोदयेषु च ॥११॥ शुक्रस्थितश्चेत् सुश्वेतसौधसौम्यामरान्वदेत् । यतुर्थस्य वशात्स्वप्न ब यात् ग्रहनिरीक्षणैः ॥१२॥ तत्त्रानुक्त यदखिलं ब्रूयात् पूर्वोक्तवस्तुना ।
इति स्वप्नकाण्डः।
---
---
-
For Private and Personal Use Only