________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान-प्रदीपिका।
बुधवर्गा इमे प्रोक्ताः शंखशुक्तिवराटकाः ॥४॥ मत्कुणाः शिथिलीयूकमक्षिकाश्च पिपीलिकाः।। भौमवर्गा इमे प्रोक्ताः षट्पदा ये भृगोस्तथा ॥५॥ देवा मनुष्याः पशवो भुजंगविहगा गुरोः । तथैकशानिनो वृक्षाः शनिवर्गाः प्रकीर्तिताः ॥६॥ एकद्वित्रिचतुःपञ्चगगनादिगुणाः स्मृताः । देहो जीवस्सितो जिह्वा बुधोनासेक्षणं कुजः ॥७॥ श्रोत्र शनैश्चरश्चैव ग्रहावयव ईरितः । द्विपाश्चतुष्पाद्वहुपाद्विहगा जानुगाः क्रमात् ॥८॥ शङ्खशम्बूकसन्धाश्च पादहीनान् विनिर्दिशेत् । यूकमत्कुणमुख्याश्च बहुपादा उदाहृताः ॥६॥ गोधाः कमठमुख्याश्च तथा चंक्रमणोचिताः।
इति पञ्चभूतकाण्डः
अथ पक्षिकाण्डः मृगमीनौ तु खचरौ तत्स्थौ मन्दभूमिजौ । वनकुक्कुटकाकौ च चिन्तिताविति कीर्तयेत् ॥१॥ तद्राशिस्थे भृगौ हंसः शुक्रः सौम्ये विधौ शिखी । वीक्षिते च तदा ब्रूयात् ग्रहे राशौ विचक्षणः ॥२॥ तद्राशिस्थे रवौ तेन दृष्टे ब्रूयात्खगेश्वरम् । बृहस्पतौ सितबको भारद्वाजस्तु भोगिनि ॥३॥ कुक्कुटो ज्ञस्य शुक्रस्य दिवान्धः परिकीर्तितः। अन्यराशिस्थखेटेषु तत्तद्राशिफलं भवेत् ॥४॥ सौम्ये खेटेऽण्डजाः सौम्या क्रूराः क्रूरग्रहैः खगाः।
इति पतिकाण्डः
अथ मनुष्यकाण्डः उच्चराश्युदये सूर्ये दृष्टे भूपास्तदाश्रिताः । उयस्थाने स्यिते राजा नेता स्वक्षेत्रगे स्थिते ॥१॥
For Private and Personal Use Only