________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान- प्रदीपिका ।
सूर्यारजीवविच्छुकशनिचन्द्रभुजङ्गमाः ॥४४॥ प्रागादिदिक्षु क्रमशश्वरेयुर्यामसंख्यया । प्रागादीशादिशः स्वस्ववारेशाद्या भवन्ति हि ॥ १.५ ॥ प्रभाते प्रहरे चाद्य द्वितीयेऽग्न्यादिकोणतः । एवं याम्यतृतीये च क्रमेण परिकल्पयेत् ॥५६॥ भूतं भव्यं वर्तमानं वारेशाद्या भवन्ति च । रज्यग्निनिधिषट्केषु मुनिव्योमाम्बुभूषु च ॥५७॥ वस्वायशरयुग्मेषु चारूढ़े चोदयात्क्रमात् । भूतञ्च वर्तमानञ्च भविष्यत्कर्कमादिशेत् ॥ ५८॥ तदिने चन्द्रयुक्त यावद्भिरुदयादिकम् । तावद्भिर्वासः सिद्ध केचिदशाधिपाद्विदुः ॥५६॥ सूर्यस्योदयमारभ्य सार्द्ध द्विघटिकाः क्रमात् । लग्नं तत्र दृश्येत तलग्नेन फलं भवेत् ॥६॥ प्रश्ननाडीर्विनिश्चित्य सार्द्ध द्विघटिकाः क्रमात् । वृषादिगणयेद्धीमान् यलग्नं तद्वशात्फलम् ॥६२॥ प्रश्ने निश्चित्य घटिकाः सार्द्ध द्विघटिकाः क्रमात् । सार्द्ध द्विनादिपर्यन्तमर्क लग्न प्रचक्षते ॥ ६२॥ तद्यथा काललग्न' तु ज्ञात्वा पूर्वादिक ं न्यसेत् । तद्वशात्प्रष्टुरारूढं ज्ञात्वा चारूढ़केश्वरान् ॥ ६३॥ श्रारूढाधिपतिर्यत्र प्रभाते नष्ट निर्गमः । मेषकर्कितुला नकाश्चत्वारो धातुराशयः ॥ ६४॥ कुभसिंहालिवृषभाः श्रूयन्ते मूलराशयः । धनुर्मीननुयुक्कन्या राशयो जीवस ंज्ञकाः ॥६५॥ कुजेन्दुसौरिभुजगा धातवः परिकीर्तिताः । मूलं भृगुदिनाधीशौ जीवौ धिषणसौम्यजौ ॥६६॥ स्वक्षेत्रभानुरुच्चन्द्रो धातुरन्यत्र पूर्ववत् । स्वक्षेत्रभानुजो मूलं स्वक्षेत्र धातुरिन्दुजः ॥६७॥ ताम्रो भौमस्त्रपुर्शश्च काञ्चन' धिषणो भवेत् । रौप्य : शुक्रः शशी कांस्यः यस मन्दभोगिनौ ॥ ६८ ॥ भौमार्कमन्दशुक्रास्तु स्वस्व लोहस्व मे स्थिताः । चन्द्रशगुरवः स्वस्व लोहाः स्वक्षेत्रमित्रगाः ॥६६॥
For Private and Personal Use Only