SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञान-प्रदीपिका। बुधादित्यौ भग्नङ्गो चंद्रः शृङ्गविवर्जितः । तीक्ष्णशृङ्गः कुजो दीर्घशृङ्गौ जीवकवी तथा ॥३६॥ शनिराहू भग्नशृङ्गो शृङ्गभेद उदाहृतः ।। वृषसिंहालिकुंभाश्च तिष्ठन्ति स्थिरराशयः ॥४०॥ कर्किनक्रतुलामेषाश्चरन्ति चरराशयः । युग्मकन्याधनुर्मीनराशय उभयराशयः ॥४॥ धनुर्मेषौ वनप्रांते कन्यकामिथुनं पुरे । हरिगिरौ तुलामीनमकराः सलिलेषु च ॥४२॥ नद्यां कुलीरः कुल्यायां वृषकुंभौ पयोघटे ।। वृश्चिकः कूपसलिले राशीनां स्थितिरीरिता ॥४३॥ बनकेदारकाद्यानकुल्याद्रिवनभूमयः । आपगातीरसद्वापी तडाकाः सरितस्तथा ॥४४॥ जलकुम्भश्च कृपश्च नष्टद्रव्यादिसूचकाः । घटकन्यायुग्मतुला ग्रामेऽजालिधनुर्हरिः ॥४५॥ बने देशे कुलीरोक्षौ नक्रमीनौ जलस्थितौ । बिपिने शनिभौमारा भृगुचंद्रौ जले स्थितौ ॥४६॥ बुधजीवौ तु नगरे नष्टद्रव्यादिसूचकौ । भौमो भूमिर्जले काव्यशशिनौ बुधभागिनौ ॥४७॥ निष्कुटञ्चेव रन्ध्रञ्च गुरुभास्करयानभः । मन्दस्य वनभूमिश्च बलोत्तरखगस्थितौ ॥४८॥ सूर्याारबलं भूमौ गुरुशुक्रबलन्तु खे । चन्द्रसौम्यबलं मध्ये कैश्चिदेवमुदाहृतम् ॥४॥ निशादिवससन्ध्याश्च भानुयुग्राशिमादितः । चरराशिवशादेवमिति केचित्प्रचक्षते ॥५०॥ प्रहेषु बलवान् यस्तु तद्वशात्कालमीरयेत् । शनेर्बर्ष तदर्धस्याद्भानोर्मासद्वयं विदुः ॥५१॥ शुक्रस्य पक्षो जीवस्य मासो भौमस्य वासरः । इन्दोर्मुहर्तमित्युक्त ग्रहाणां बलतो वदेत् ॥५२॥ एतेषां घटिका प्रोक्ता उच्चस्थानजुषां क्रमात् । स्वगृहेषु दिनं प्रोक्त मित्रभे मासमादिशेत् ॥३॥ शत्रुस्थानेषु नीचेषु वत्सरानाहुरुत्तमान् । For Private and Personal Use Only
SR No.090186
Book TitleGyan Pradipika
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherNirmalkumar Jain
Publication Year1934
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy