________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान- प्रदीपिका ।
क्षणे सुराचार्य स्त्रिपात्पादार्धयोः कुजः ॥८॥ पादेक्षणे बली सौरिः वीक्षणाद्बलमीरितम् । तिर्यक पश्यन्ति तिर्यञ्चा मनुष्याः समदृष्टयः ॥ ६॥ ऊर्ध्वेक्षणः पत्नरथः अधोनेत्राः सरीसृपाः । अन्योन्यालोकितौ जीवचन्द्रौ ऊर्वेक्षणो रविः ॥१०॥ पश्यत्यरः कटाक्षेण पश्यतोऽधः कवीन्दुजौ । एकट्या हिमंदौ च ग्रहाणामवलेोकनम् ॥११॥ मेषः प्राच्यां धनुः सिंहावनावुतश्च दक्षिणे । मृगकन्येच नैर्ऋत्य मिथुनः पश्चिमे तथा ॥ १२॥ वायुभागे तुलाकुम्भ उदीच्यां कर्क उच्यते । ईशभागेऽलिमीनौ च क्रमानादि सूचकाः ॥ १३॥ अर्कशुक्रारराह्नर्किचन्द्रज्ञगुरवः क्रमात् । पूर्वादीनां दिशामीशाः क्रमान्नष्टादि सूचकाः ||१४|| मैत्रयुग्मधनुः कुम्भ तुलासिंहाश्च पूरुषाः । राशयोऽन्ये स्त्रियः प्रोक्ता ग्रहाणां भेद उच्यते ॥१५॥ पुमांसोऽकरिगुरवः शुक्रे न्दुभुजगास्त्रियः । मन्दज्ञकेतवः क्लीबा ग्रहमेदाः प्रकीर्त्तिताः ॥ १६ ॥ तुलाकोदण्डमिथुना घटयुग्मं नराः स्मृताः । एकाकिनौ मे सिंहो वृषकर्णालिकन्यकाः ॥१७॥ काकिन्यः स्त्रियः प्रोक्ताः स्त्रीयुग्मं मकरान्तिमौ I एकाकिनोऽर्केन्दुकुजाः शुक्रज्ञार्काहिमन्त्रिणः ॥ १८ ॥ पते युग्मग्रहाः प्रोक्ताः शास्त्र ज्ञान- प्रदीपके । प्राः कलिमीनाश्च धनुः सिंहक्रिया नृपाः ॥१६॥ तुलायुग्मघटा वैश्याः शूद्रा नक्रोक्षकन्यकाः । नृपौ प्रर्ककुजौ विप्रो बृहस्पतिनिशाकरौ ॥२०॥ बुधो वैश्यो भृगुः शुद्रो नीचावभुजंगमौ । रक्ताः मैषधनुः सिंहाः कुलीरोततुलाः सिताः ॥२१॥ कुग्भालिमीनाः श्यामाः स्युः कृष्णयुग्मांगना मृगाः । शुक्रः सितः कुजो रक्तः पिङ्गलाङ्गो बृहस्पतिः ||२२|| बुधः श्यामः शशी श्वेतः रक्तः सूर्योऽसितः शनिः । राहुस्तु कृष्णवर्णः स्यात् वर्णभेदा उदाहृताः ||२३||
For Private and Personal Use Only