________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका। उत्तवीभ्यामुदीयन्ते मीनमेषतुलाः स्त्रियः ॥३०॥ राशिचक्र' समालिख्य प्रागादिवृषभादिकम् । प्रदक्षिणक्रमेणैव द्वादशारूढ़संज्ञकम् ॥३१॥ वृषश्चैव वृश्चिकस्य मिथुनस्य शरासनम् । मकरस्तु कुलीरस्य सिंहस्य घट उच्यते ॥३२॥ मीनस्तु कन्यकायाश्च तुलाया मेष उच्यते । प्रतिसूत्रबशादेते परस्परनिरीक्षकाः ॥३३॥ गगनं भास्करः प्रोक्तो भूमिश्चन्द्र उदाहृतः । पुमान् भानुर्बधूश्चन्द्रः खचक्रपाणवन्तविः (?) ॥३४॥ भूचक्रदेहश्चन्द्रः स्यादिति शास्त्रस्य निर्णयः । रवेः शुक्रः कुजस्यार्कः गुरोरिन्दुरहेर्बुधः ॥३५॥ ध्वजादिव्युत्क्रमेणैव तत्तत्कालं विनिर्दिशेत् ।
इत्यारूढछत्राः
अथ धातुचिन्ता प्रष्टुरारूढभं ज्ञात्वा तद्विद्यामवलोक्य च । आरूढाद्यावती विधिस्तावतो तूदयादिका ॥१॥ तद्राशिच्छत्रमित्युक्त शास्त्र ज्ञान-प्रदोपके ।
आरूढाद्भानुगां वीथों परिगण्यादयादितः ॥२॥ ताबता राशिना छतमिति केचित् प्रचक्षते । मेषस्य वृषभं छत्र मेषच्छत्र वृषस्य च ॥३॥ युग्मकर्कटसिंहानां मेषच्छत्रमुदाहृतम् । कन्याया वृषभं छत्र तुलाया वृषभस्तथा ॥४॥ वृश्चिकस्य युगच्छत्र धनुषो मिथुनं तथा। नक्रस्य मिथुनच्छत्र युगः कुम्भस्य कीर्तितः ॥५॥ मीनस्य वृषभच्छत्र छलमेवमुदाहृतम् । उद्यात्सप्तमे पूर्णमधं पश्येत्रिकोणके ॥६॥ चतुरस्र त्रिपादं च दशमे पाद एव च । एकादशे तृतीये च पदार्ध वीक्षणं भवेत् ॥७॥ रवीन्दुसितसौम्यास्तु बलिनः पूर्णबीक्षणे ।
For Private and Personal Use Only