________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान-प्रदीपिका। रवेणिगलिस्त्विन्दोः कुलीरोंऽगारकस्य च ॥१५॥ शस्य मीनस्त्वजः सौरेः कन्या शुक्रस्य कथ्यते । सुराचार्यस्य मकरस्त्वेतेषां नीचराशयः ॥१६॥ राहोवषयुगं चेन्द्रधनुष्केण मृगेश्वराः । परिवेषस्य कोदण्डः कुंभो धूमस्य नीचभूः ॥१७॥ मित्रन्तुलानककन्यायुग्मचापझपास्त्वहेः ।। कुम्भक्षेत्रमहेः शत्रुः कुलीरो मृगराधियौ ॥१८॥ उदयादिचतुष्कन्तु जलकेन्द्रमुदाहृतम् । तञ्चतुर्थ चास्तमयं तत्त यं बियदुच्यते ॥१६॥ तत्त र्यमुदयञ्चैव चतुकेन्द्रमुदाहृतम् । चिन्तनेयं तु दशमे हिबुके स्वप्नचिंतनम् ॥२०॥ छत्रे मुष्टिं चयं नष्टमन्त्ये चारूढ़तोऽपि वा । चापोक्षकर्किनका ये ते पृष्ठोदयराशयः ॥२१॥ तिर्यगदिनबलाः शेषा राशयो मस्तकोदयाः । अर्काङ्गारकभन्दास्तु सन्ति पृष्ठोदयोदयाः ॥२२॥ उद्यतस्तीर्यगेवेन्दुकेतू तत्र प्रकीर्तितौ । उदये बलिनौ जीवबुधौ तु पुरुषौ स्मृतौ ॥२३॥ अन्ते चतुष्पदौ भानुभूमिजौ बलिनौ ततः । चतुर्थे शुक्रशशिनौ जलराशौ बलोत्तरौ ॥२४॥ अर्यही बलिनौ चास्ते कीटकाश्च भवन्ति हि । युग्मकन्याधनुःकुंभतुला मानुपराशयः ॥२५॥ द्वन्द्वोदयौ मीनमृगौ अन्ये सर्वे स्वभावतः । चतुष्पादा मेषवृषौ सिंहचापौ भवन्ति हि ॥२६॥ कुलीराली बहुपादौ प्रतीणो मृगमीनभौ। द्विपादाः कुम्भमिथुनतुलाकन्या भवन्ति हि ॥२७॥ द्विपादा जीवविच्छुक्राः शन्यर्काराश्चतुष्पदाः । शशिसौं बहुपादौ शनिसौम्यौ च पाक्षणौ ॥२८॥ शशिसपौं जानुगती पद्भ्यां यान्तीतरे ग्रहाः । उदीयन्तेऽजवीथ्यान्तु चत्वारो वृषभादयः ॥२६॥ युग्मवीथ्यामुदीयन्ते चत्वारो वृश्चिकादयः ।
For Private and Personal Use Only