________________
६०
गद्यचिन्तामणिः
[ २५ - १६ मन्त्रिधर्मदत्तेन -
वेषु धर्मदत्तो नाम धर्मैकतानबुद्धिरमात्यमुख्यः प्रज्ञाप्रदीप दृष्टकाष्ठाङ्गा र हृदयगतार्थोऽपि पार्थिव'पक्षपातादनपेक्षितप्राणः सधीरमभाणीत्
$ २६. आयुष्मन्, नैकदोषतिमिरविहरणरजनीमुखं राजद्रोहं दौरात्म्यादुपदिशति दैवते - ऽस्मिनाकस्मिकः कोऽयमादरः ? पश्य विश्वम्भरापतयो ह्यतिशयितविश्वदेवताशक्तयः । तथाहि५ 'यस्त्वपकरोति देवताभ्यः स पुनः परत्र विपद्येत वा न वा । मनसापि वैपरीत्यं राजनि चिकीर्षतां चिन्तासमसमयभाषिकी विपदिति नेताश्वर्यम् । यदकपद एवं सह सकलसंपदा संपनीपद्यते प्रलयः स्वकुलस्यापि । परत्रापि पापीयसस्तस्याधोगतिरपि भवितेति शंसन्ति शास्त्राणि । तद्विवेकविधुरजनगतागतक्षुण्णमयशः पङ्कपटल पिच्छिलमभितः प्रसरदपाय कण्टक कोटिसंकटमशेष जन विद्वेषविषधर
मुख्यः प्रजैव प्रदीपः प्रज्ञाप्रदीपस्तेन दृष्टः काष्टाङ्गार हृदयगतोऽर्यो येन तथाभूतोऽपि सन् पार्थिवः १० सत्यंधरो महाराजस्तस्य पक्षे पातस्तस्मात् अनपेक्षिताः प्राणा येन तारक सन् सधैर्यं यथा स्यात्तथा अभाणीत् कथयामास ----
६ २६. आयुष्मन्निति — हे आयुष्मन् हे दीर्घायुष्क । नैकदोषा एवं तिमिरं तस्य विहरणाय भ्रमणाय रजनीमुखं प्रदोषः रात्रिप्रारम्भमात्र इति यावत् । इत्थंभूतं राजद्रोहं दौरात्म्यात् दुष्टत्तया उपदिशति कथयति अस्मिन् दैवतेऽस्मिन् देवे कोऽयम् आकस्मिकः सहसोद्भूत आदरः सरकारः १ पश्य, १५ विश्वंभरापतयो राजानो हि अतिशयिता अतिक्रान्ता विश्वदेवतानां शक्तिस्ते तथाभूताः सन्तीति शेषः । तथाहीति - तथाहि शब्देन तदेव स्पष्टीकरोति । यो जनो देवताभ्यः देवेभ्यः स्वार्थे तल अपकरोति स पुनः पत्र परलोके विपद्येत विपन्नो भवेत् न वा भवेत्, किन्तु मनसापि चेतसापि राजनि वैपरीत्यं विपरीतभावं चिकीर्षतां कर्तुमिच्छतां जनानां विपद् चिन्ताया: समसमये भवतीत्येवं शीलेत्येतदाश्चर्यं विस्मयस्थानं न । यद् यस्मात् एकपद एव युगपदेव सकलसंपदा निखिलसम्पत्त्या सह स्वकुलस्यापि प्रलयो विनाशः संपनी२० पत्रे संपन्नो भवति परत्रापि परभबेऽपि तस्य पापीयसः प्रचुरपापस्याधोगतिः श्वाश्रीगतिर्भवितेति शास्त्राण्यपि शंसन्ति कथयन्ति । तद्विवेकेति तत् तस्मात्कारणात् विवेकेनं हिताहितबोधेन विधुरा रहिता थे जनास्तेषां गतागताभ्यां क्षुपणं मर्दितम् अयशोऽपकीर्तिरेव पक्कपटलं कर्दमसमूहस्तेन पिच्छिलं विजिलं छलपातकारणमिति यावत् 'स्यापिच्छिलं तु विर्जिलम्' इत्यमरः, अभितः तटद्वये प्रसरतो येऽपायकण्टका
उसकी बुद्धि धर्म में ही संलग्न रहती थी। वह यद्यपि प्रज्ञारूपी दीपक के द्वारा काष्टांगार के २५ हृदयगत पदार्थको देख चुका था तथापि राजा सत्यन्धरके पक्षपात से अपने प्राणोंकी परवाह न कर धीरता के साथ बोला-
६ २६. आयुष्मन् ! दुर्भावनासे अनेक दोषरूपी अन्धकारके विहारके लिए रात्रिके प्रारम्भ भागके समान राजद्रोहका उपदेश देनेवाले इस दैवपर यह आपका कौन-सा अकस्मात् प्रकट होनेवाला अत्यन्त आदर है ? देखिए, राजा लोग समस्त देवताओंकी शक्तिको ३० अतिक्रारत करनेवाले होते हैं। बात स्पष्ट हैं क्योंकि जो देवताओंका अपकार करता है, वह
परभव में विपत्तिको प्राप्त होता भी है और नहीं भी होता, परन्तु जो राजाके विषय में मनसे भी विपरीत चेष्टा करना चाहते हैं उनपर चिन्ता के समय ही विपत्ति आ टूटती है यह आश्चर्य की बात नहीं । समस्त सम्पत्ति के साथ-साथ राजद्रोही मनुष्यके अपने कुलका भी संहार एक साथ हो जाता है। यह तो इस लोककी बात रही, परन्तु परलोक में उस पापीकी ३५ अधोगति होती हैं ऐसा शास्त्र सूचित करते हैं। इसलिए अविवेकी मनुष्यों के यातायातसे जो ख़ुदा हुआ है, अपयशरूपो कीचड़ के समूह से गीला है, जो दोनों ओर फैलते हुए दुःखरूपी
१. क० ख० म० पार्थिवपक्ष' पदं नास्ति ।