________________
गधचिन्तामणिः
[२५ कामागारेण -
चतुरं किमपि वचनमचीकथत्-'किमपि विविक्षतामेव नः क्षीणतामयासिषुरनेके दिवसाः । अद्यापि लज्जमानमिव मानसमन्तराकर्षति रसनाम् । परिवादपविपतनभोतेव गलकुहरान्न निःसरति सरस्वती। पातकपङ्कपतनातङ्कादिव कम्पते कायः 1 किमेतत्स्वन्तं दुरन्तं वेति स्वान्तं न मञ्चति चिन्ता। तदपि देवादेशलवनभयोत्खातशङ्काशङकुनिरङ्कुशेन मनसा समावेद्यते । स्वप्ने केनापि पार्थिवपरिपन्थिना देवतेन 'निहत्य राजानमात्मानं रक्ष" इति निरनुकोशेन समावेद्यते । कात्र प्रतिक्रिया ? किं वात्र प्रयुज्यते ? यदिहास्माभिविधीयेत तदभिधीयताम् ।' इति पापिष्ठेन काष्ठागारवचनेन कुपितकण्ठोरवकण्ठनिःसृतेन स्वनेन बनकरिण इव कांदिशीकाः, निष्कृपनिषादनिर्दयाकृष्टिनिष्ठयूतेन चापटङ्कारेण रङ्का इव धृतातङ्काः, प्रमादप्रवृत्तेन प्राणिमचीकथत् कथयामास । 'कथ वाक्यप्रवन्धे' इत्यस्याग्लोपिरवादीघसम्वद्रावाभावे 'अचीकथत्' इतिप्रयोगोऽपाणिनीयः। तत्सम्मतं सु 'अचकथत्' इति रूपम् । किमपि विद्यक्षतामेव वस्तुमिच्छसामेव नोऽस्माकम् अनेके दिवसाः क्षीणतां नश्वरताम् अयासिपुः प्रापुः । वक्तुमिच्छतामेव नोऽनेके दिवसा ध्यतीला इति भावः । अद्यापि सांप्रतमपि लजमान मित्र त्रपमाणमिव मानसं हृदयं रसना जिह्वाम् अन्तः अभ्यन्तरम् आकर्षति । सरस्वती वाणी परिवाद एव पविस्तस्य पतनं तस्माद् भीतेव लोकनिन्दावज्रपतनअस्तेव गलकुहरात्कण्ठकन्दरात् न निःसरति न बहिनिंगच्छति । पातकं पायमेव पङ्कः कर्दमस्तस्मिन् पसनं तस्यातङ्को भयं तस्मादिव कायः कम्पते । किमेतत् स्वन्तं सुखान्तं दुरन्तं दुःखान्तं वा, इति चिन्ता स्वान्तं चित्तं न मुञ्चति । तदपि तथापि देवादेशस्य लखनाद् यद्भयं तेनोखासो यः शङ्काशङ्कस्तेन निरङ्कशं तेन एवंभूतेन मनसा समावेद्यते कथ्यते । 'स्वप्ने पार्थिवपरिपन्थिना नृपतिविरोधिना केनापि देवतेन देवेन राजानं निहत्य मारयित्वा आत्मानं रक्ष' इति निरनुक्रोशेन निर्दन सता समावेद्यते कथ्यते । अन्न का प्रतिक्रिया प्रतिकारः किं धात्र प्रयुज्यते प्रयोगः क्रियते । इह विषये अस्माभिर्यद विधीयेत क्रियेत तद् अभिधीयतां कथ्यताम्' इति पापिष्टेन पापतमेन काष्ठाकारचषनेन कुपितश्चासौ कण्ठीरवश्चेति कुपितकण्ठीरवः कुखुमृगराजस्तस्य कण्ठात् निःसृतस्तेन स्वनेन शब्देन 'शब्दो निनादी निनदो ध्वनिध्यानरचस्वनाः' इत्यमरः । वनकरिण हव काननद्विरदा इव कांदिशीका मीताः, निष्कृपनिषादेन निदयकिरातेन या निर्दयाकृष्टिस्तया निष्ट यूतः प्रकटितस्तेन चापटङ्कारेण कोदण्डशब्देन रक्का इव दीना इथ तातङ्का भूतभयाः,
चलते हुए अर्थ के समर्थन करने में चतुर कुछ वचन बोला। वह कहने लगा कि कुछ कहनेकी २५ इच्छा रखते हुए ही हमारे अनेक दिन बीत गये | आज भी लजित होते हुएके समान
हृदय भीतर ही भीतर जिह्वाको स्वींच रहा है। अपवादरूपी वनके पतनसे भयभीत हुई. की तरह वाणी कण्ठरूप कन्दरासे बाहर नहीं निकल रही है। पापरूप पंकमें गिरनेके भयसे ही मानो शरीर काँप रहा है। इसका परिणाम अच्छा होगा या बुग' यह चिन्ता
चित्तको नहीं छोड़ रही है। फिर भी दैवकी आज्ञाके उल्लंघनके भयसे शंकारूपी कीलके ३० उखड़ जानेसे निःशंक चित्तके द्वारा कुछ कहा जा रहा है। 'राजाका विरोधी कोई निर्दय
देवता स्वप्नमें प्रतिदिन कहता है कि राजाको मारकर अपनी रक्षा करो। मैं आप लोगोंसे जानना चाहता हूँ कि 'इसका क्या प्रतिकार है ? इस स्थिति में क्या किया जाना चाहिए ? यहाँ हमारे द्वारा जो कुछ किया जा सकता हो वह कहिए।' इस प्रकार अत्यन्त पापपूर्ण
काष्ठांगारके वचनोंसे मन्त्रीगण तत्काल उस तरह भयभीत हो उठे, जिस तरह कि क्रुद्ध सिंह30 के कण्ठसे निकले हादसे भागते हए जंगली हाथी भयभीत हो सठते हैं अथवा निर्दय भोलके द्वारा निर्दयतापूर्वक खींचकर छोड़ी हुई धनुषकी टंकारसे जिस प्रकार दीन मृग आतंकित
१. क. स्त्र० म० रक्षेत्।
१०