________________
- काष्टाङ्गारवैभववर्णनम् ]
प्रथमाः २३. इत्थमनुवर्तमानमनोरथम्, कदाचित्कनकगिरिशिलातलविशालस्य विमलदुकूलवितानविराजिनः प्रलम्बमानकदलिकाकलापस्य काञ्चनशिलास्तम्भशुम्भतो महतो मण्डपस्य मध्यभागनिवेशिनि निष्टप्ताष्ट्रापदनिर्मितवपुषि विचित्रास्तरणशोभिनि सिंहासने समासोनम्, पृष्टतः स्थापितेन राजलक्ष्मीनिवासपुण्डरोकपाण्डुरेण धवलातपत्रेण तिलक्रितमूर्धानम्, उभयतः स्थिताभिरनुक्षणरणितमणिपारिहार्यमुखरबाहुलतिकाभिरिवामनयनाभिः सदिलासविध्यमानबिमल- ५ चामरमरुदान्दोलितकुसुमदामसुरभितवक्षःस्थलम्, मूर्तिमन्तमिव शोर्यगुणम्, विग्रहवन्तमिवावलेपम्, आत्मदेहप्रभाकवचितकाष्ठं काठाङ्गार परिवार्य प्रकटितप्रश्रयाः समन्तादासिषत सामन्ताः ।
२४. अथ तानालोक्य कपटकर्मपटिष्ठः काष्टाङ्गार: स्वहृदयविपरिवर्तमानार्थसमर्थनः
६२३, इत्थमिति-इत्थमनेन प्रकारेण अनुवर्तमाना भूयो भूयो भवन्तो मनोरथा यस्य तम् । कदाचिजातचित् कनकगिरेः स्वर्णाचलस्य शिलातल वद्विशालस्तस्य, विमलदुकूलस्य निर्मलवुकूलवस्त्रस्य १० वितानेन चन्द्रोपकेन विराजिनः शोभिना, प्रलम्बमानः कदलिकाकलापो ध्वजसमूहो यस्मिन् तस्य, काञ्चनशिलास्तम्भः स्वर्णशिलास्तम्भैः शुम्भतः शोभमानस्य महतो मण्डपस्य मध्यमागे निविशत इत्येवंशीलस्तस्मिन् मध्यस्थित इत्यर्थः, निष्टतं संतप्तं यदष्टापदं स्वर्ण तेन निर्मितं वपुर्यस्य तस्मिन् , विचित्रेण विविधवर्णेन भास्तरणेन शोभत इत्येवंशीलं तस्मिन् सिंहासने समासीनं स्थितम् | पृष्टतः पश्चात् स्थापितेन राजलक्ष्म्या निवासभूतं यत्पुण्डरीकं तद्वन् पाण्डुरं पाण्डवणं तेन धवलातपत्रेण श्वेतरछत्रेण तिलकितो १५ मूर्धा यस्य सम् । उभयतः स्थिताभिः, अनुक्षणं प्रतिसमयं रणितैः शब्दायमानैः पारिहाराभूषणमुखराः शब्दायमाना बाहुलतिका भुजवल्लयों यास ताभिः वारवामनयनाभिर्वश्याभिः सविलासं यथा स्यात्तथा विधूयमानयोः प्रकीर्यमाणयोर्विमल चामरयोनिमलबालन्यजनयोमरुता पवनेनान्दोलितं कम्पितं यस्कुसुमदाम पुप्पत्रक तेन सुरभित सुगन्धितं वक्षःस्थलं यस्य तम् , मूर्तिमन्तं शौयगुणमिव पराक्रमगुणमिव, विग्रहवन्तं शरीरधारिणमवलेपमिव गर्वमिय, भास्मदेहस्य स्वकीयशरीरस्य प्रभया कवचिता च्याप्ताः काध दिशो २० येन तम्, एवंभूतं काष्ठाकारं परिवार्य परिचेष्टय प्रकटितः प्रदर्शितः प्रश्रयो विनयो यैस्ते तथाभूता सामन्ता मण्डलेश्वराः समन्तात्परितः आसिषत स्थिता अभूवन् ।
६२. अथेति-अथानन्तरं तान् सामन्तान् आलोक्य कपटकर्मणि मायाकर्मणि पटिष्टश्चतुरतरः काष्ठाझार एतनामसचिवः स्वहृदये स्वकीयचेतसि विपरिवर्तमानो योऽर्थस्तस्य समर्थ ने चतुरं किमपि वचन
हु २३. इस प्रकारके मनोरथ रखनेवाला काष्टांगार किसी समय सुमेरु पर्वतके २५ शिलात लके समान विशाल, निर्मल रेशमी चदोवेसे सुशोभित, लटकती हुई ध्वजाओंके समूहसे युक्त, और स्वर्णमय शिलाके खम्भोंसे शोभायमान बड़े भारी मण्डपके मध्यभागमें स्थित, तपाये हुए स्वर्ण से निर्मित एवं रंग-बिरंगे बिस्तरसे सुशोभित सिंहासनपर बैठा था। पीछेकी ओर रखे हुए राजलक्ष्मीवे. निवासभूत कमलके समान सफेद छत्रसे उसका मस्तक सुशोभित था। दोनों ओर खड़ी एवं क्षण-क्षणमें खनकते हुए मणिमय आभूषणोंसे शब्दाय- ३० मान सुजलताओंकी धारक वेश्याओंके द्वारा विलासपूर्वक ढोरे हुए निर्मल चमरोंको वायुसे हिलती फूलोंकी मालाओंसे उसका वक्षःस्थल सुगन्धित हो रहा था। वह ऐसा जान पड़ता था मानो मूर्निधारी पराक्रमरूप गुण ही हो अथवा शरीरधारी अहंकार ही हो। अपने शरीरको कान्तिसे उसने दिशाओंको व्याप्त कर रखा था। विनयको प्रकट करनेवाले सामन्त गण उसे घेरकर चारों ओर बैठे हुए थे।
३५ २४. तदनन्तर उन सामन्तोंको देख कपट कार्य में निपुण काष्टांगार अपने हृदयमें १ का स्व. ग. पाण्डरेण ।