________________
गबचिन्तामणिः
[२२ काठांगारस्य कुसुमधूलिधसरितपरिसरवनादुदयगिरे राखेलद्वरुणरमणीचरणन्यासमिलदविरलयावकपल्लवितप्रस्तरादस्तगिरेगशल राजदुहित करनखलूनपल्लवभरकृतावनोरुह शिखरोल्लासात्कैला सादानिशिचरकुलप्रलयधूमकेतोः सेतोरवनतमकुटमणितटलुठितैर्माणियमहःपल्लवैरर्चयन्ति नश्चरणी धरणीभुजः । एवं फलितसकलमनोरथस्य सर्वोर्वीपालमौलिविनिवेशित'चरणस्य शौर्यशालिनो मादृशस्य परनिदेशकरणमयशःकारणम्। नहि चेतयमाना मानिनः परशासनं शिरसा धारयन्तो वहन्ति जीवितम् । सकल भुवनाधिपत्योपभोगसुखितमपि दुःखयति हि पारतन्त्र्यम् । तत्केनापि व्याजेन व्यापाद्य राजानं व्यपगतपारत, यशोकशङ्कनिःशङ्क एव महीं गदेकशासनां विधास्यामि' इति । महीनहारतेषां कुममानां पुष्पाणां धूल्या परितं मलिनं परिसरं वनं तटारण्यं यस्य तस्मात उदयगिरेः
पूर्वाचलातू आ इति मर्यादायाम्। आ खेलदिति--खेलत्यो या बारमण्यः पाशिपुरन्ध्र यस्तासां १० चरणन्यासेन पावनिक्षेपण मिलद् यद् अविरलयाक्कं निरन्तरालक्तकं तेन पल्लविताः किसलयबदरुणवर्णी
कृताः प्रस्तरा पस्मिन् स तस्मात् अस्तगिरेः अस्ताचलात आ। आ झलेति-शैलराजस्य हिमालयस्य या दुहिता पुत्री पार्वतीत्यर्थस्तस्याः करनखैहस्तनखरैटूनश्किन्नो यः पल्लवमरः किसलयसमूहस्तेन कृतो विहितोऽवनीरुह शिखराणा वृक्षाग्रभागानामुल्लास उसामो यस्मिन् तस्मात् कैलासात् हरावलात् श्रा।
आ निशिचरेति-निशिनराणां राक्षसाणां कुलस्य प्रलयो विनाशस्तस्मै धूमकेतुस्तस्मात् सेतोदक्षिणार्णव१५ पुलिनात आ। धरणीभुजो राजानः अवनतेभ्यो नम्रीभूतेभ्यो मुकुटमणितरेभ्यो मौलिमणिमयप्रान्तेभ्यो लुठिसै
रधःपतितैः माणिक्यमहःपल्लवमणितेजःकिसलयः । नोऽस्माकं चरणी अर्चयन्ति पूजयन्ति । एवमितिएवमनेन प्रकारेण फलिताः सफलीभूताः सकलमनोरथा . यस्य तस्य। सवों पकानां निखिलराजानां मौलिगु मुकटेषु विनिवेशिताः स्थापिताश्चरणा यस्य तस्य । शार्यशालिनः पराकमेण शोममानस्य
माशस्य मत्सदृशजनस्य परनिदेशकरणं पराज्ञासंपादनम् अयशःकारणमकीर्तिनिदानम् । अस्तीति शेषः । २० हि यतः चेतयमानाश्चेतनशीला मानिनः परशासन परकीयनिदेश शिरसा मूर्ना धारयन्तो जीवितं न
वहन्ति । सकलभुवनस्य निखिलजगतो यदाधिपत्यं स्वामित्वं तस्योपमोमेन सुखितमपि पारसन्यं परायत्तजीवनं हि निश्चग्रेन दुःखयति दुःखं करोति । तत्तस्मास्कारणात, केनापि ग्याजेन राजानं सत्यंधरमहोपालं व्यापाय मारथित्वा व्यपगतो दूरीभूतः पारसन्यशोकशङ्कः परायत्तत्वशोककीलो यस्य तथाभूतः सन् मही ममैकं शासनं यस्यां तथाभूतां विधास्यामि करिष्यामि । इति ।
२५ वायुसे कम्पित वृक्षोंकी पुष्पसम्बन्धी परागसे जिसके निकटवर्ती वन धूसरित हो रहे हैं ऐसे
उदयाचलसे, खेलती हुई वरुणकी स्त्रियोंके चरण निक्षेपसे प्राप्त महावरके अविरल रंगसे जिसके पाषाण लाल-लाल पल्लवोंसे युक्त हो रहे हैं, ऐसे अस्ताचलसे, पार्वतीके हाथके नाखूनोंसे तोड़े हुए पल्लवोंके भारसे जिसके वृक्षोंके शिखर ऊपरकी ओर उठ रहे हैं ऐसे कैलास पर्वत से, और
रावण के वंशको नष्ट करने के लिए प्रलयकालीन अग्निके समान सेतुबन्धसे लेकर आये हुए ३. राजा, नम्रीभूत मुकुटोंके मणिमय तटोंमें लौटनेवाले माणिक्योंके तेजरूप पल्लबोंसे हमारे
चरणोंकी पजा करते हैं । इस प्रकार जिसके समस्त मनोरथ फलीभत हो रहे हैं. समस्त राजाओंके मुकुटांपर जिसके चरण स्थित हैं, एवं जो पराक्रमसे सुशोभित है, ऐसे मेरे लिए दूसरेकी आज्ञापालन करना अपयशका कारण है । वास्तवमें चेतनाशील मानी मनुष्य सिरसे दूसरे की आज्ञाको धारण करते हुए जीवित नहीं रहते । मेरी बात जाने दो, जो समस्त संसारके स्वामित्वके उपभोगसे सुखी हो रहा है उसे भी परतन्त्रता दुःखी करती है। इसलिए किसी वहाने राजाको मारकर परतन्त्रताजन्य शोकरूपी कोलके निकल जानेसे निःशंक होकर ही मैं पृथिवीको एक अपने ही शासनसे युक्त करूँगा।