________________
गद्यचिन्तामणिः
[१३-१४ राश्याः -
न्यास्तुर्यप्रहरे, राज्ञी स्वप्नत्रयमद्राक्षीत् । अत्याक्षीच्च तत्क्षण एव सा संजातशोकप्रसादविद्रावितां निद्राम् । अनौषोच्च प्रबुध्यमानभवनकलहंस रवमांसलं वचो मङ्गलपाठकानाम् । समुदस्थाच्च सत्वरसमुपसृतयामिकयुवतिजनप्रसारितहस्तावलम्बना प्रलम्बमानकेशहस्तविन्यस्तवाम
हस्ता शनैः शनैः शयनतलात् । उदमीमिलच्च विकचोत्पलविभ्रममुषी चक्षुषी सकलदोषपरि५ हारिणी भगवदर्हत्परमेश्वरस्य श्रीमुखाम्भोजे । प्राणसीच्च प्रचुरभक्त्या बद्धाञ्जलि: प्रशिथिलित
कबरीचुम्बितमहीतला निखिलभवालेशहरं भगवन्तम् । व्यचीचरच्च विगलितनिद्राकृतालस्या किमस्य फलं स्वप्नस्येति । व्यधाच्च मनो भर्तुमुंखादस्य फलश्रुतौ ।
गतप्राये सति राज्ञी विजया स्वप्नत्रयं वक्ष्यमाणम् अद्राक्षीत् । तत्क्षण एवं च सा संजाताभ्यां शोक
प्रसादाभ्यामहर्षहर्षाभ्यां विद्याविनामपसारितां निद्रामत्याक्षीत् । मालपाठकानां मागधानां च प्रबुध्य१० मानानां जानियमाणानां भवनकलहंसानां प्रासादकादम्बानां स्त्रेण शब्देन मांसलं परियुष्टं वचो वचनं
'वाग्वचो वचनं वाणी भारती गी: सरस्वती' इति धनंजयः, अनोषीदाकायामास । सस्वरं शीघ्र समुपसृताः समन्तारसमीपं समागता ये यामिकयुवतिजनाः प्राहरिकतरुणीजनास्तैः प्रसारिता हस्ता अवलम्बनानि यस्याः सा, प्रलम्बमाने समाने केशहस्ते केशपाशे विन्यस्तो वामहस्तो यया सा तथाभूता सती शनै:
मन्दं मन्दं शयनतलात् विष्टरपृष्टात् समुदस्थाच्च समुत्तिष्ठति स्म। धिकचोत्पलयोः प्रफुल्लकुवलय१५ योविभ्रमं मुण्णीत इति विकचोत्पल विभ्रममुषी चक्षुषी भगवदहत्परमेश्वरस्य भगवतोऽहत्परमेष्ठिनः
सकलदोषापहारिणि निखिलदोषक्षयकारिणि श्रीमुखाम्भोजे श्रीवदनारविन्दे उदमीमिरच उन्मीलयामास प्रहृष्टाभ्यां चक्षुभ्यां भगवतोऽहतो दर्शनं चकारति भावः । बद्धाञ्जलि: प्रशिथिलितया स्रस्तया कवर्या चूडया चुम्बितं संस्पृष्टं महीतलं यया तथाभूता सती निखिलभवक्लेशहरं समग्रसंसारसंक्लेशापहारक
भगवन्तं जिनेन्द्र प्राणसीच नमश्चकार च । विगलितं व्यपगतं निद्राकृतमालस्यं जाउयं यस्यास्तथाभूता २० सती अस्य स्वप्नस्य फलं किं स्यादिति व्यचीचरच विचारयामास च। मर्तुवल्लभस्थ मुखादस्य स्वप्नस्य
फलश्रुती फलश्रवणे मनो व्यधाश्च चकार च ।
समूह विरलताको प्राप्त हो गया और जब रात्रिका चौथा पहर प्रायः समाप्त होनेको आया तब विजया रानीने तीन स्वपन देखे। उसी समय उसने समत्पन्न शोक और प्रसन्नतासे दर
हुई निद्राका परित्याग किया। राजमहलके जागते हुए कलहंसोंकी ध्वनिसे परिपुष्ट मंगल२५ पाठकों के वचन सुने । तदनन्तर शीघ्रतासे समीप आयी हुई पहरेपर खड़ी तरुण स्त्रियोंने जिसे
हाथका सहारा दिया था और नीचे लटकते हुए केशपाशपर जिसका बायाँ हाथ स्थित था ऐसी विजया रानी धीरे-धीरे शय्यातलसे उठो। उठते ही उसने खिले नील कमलकी शोभाका अपहरण करनेवाले नेत्र, समस्त दोपोंका परिहार करनेवाले श्री भगवान् अर्हन्त परमेश्वरके मुखकमलपर खोले । तत्पश्चात् अत्यधिक भक्तिसे अञ्जलि बाँधकर हाथ जोड़कर ढीली चोटीसे पृथिवी तलका स्पर्श करती हुई रानीने संसारके समस्त क्लेशोंको हरनेवाले भगवानको प्रणाम किया। निद्रासम्बन्धी आलस्यके दूर होनेपर उसने विचार किया कि इस स्वप्नका फल क्या होगा ? विचार के अनन्तर उसने प्राणनाथ के मुखसे स्वप्नोंका फल सुननेका मन किया।
१. २० ख० ग. हस्तावलम्चन। २. क. विदधाम: सफलं मनो।