________________
४२
गद्यश्चिन्तामणिः
[११-१२ नृपेण सह - ११. कदाचित्प्रहतमृदुमृदङ्ग रङ्गमधिबसविलासिनीनामतिचतुरकरणबन्धबन्धुरमनङ्गतन्त्रशिक्षाविचक्षणविटविदूषकपरिषदुपास्यं लास्यमवालोकिष्ट। कदाचिदनुगतवीणावेणुरणितरमणीयं रमणोनां गीतमाकर्णयन्कर्णपारणामकार्षीत् । कदाचिद्विकचकुसुमपरिमलतरलमधुकरकलरवमुखरिते लतामण्डपे . विरचितनवकिसलयशयने कृशोदरीमरीरमत् । कदाचिद्वनकरीव करिणोसखः सह दीर्घदृशा विहरन्विहारदीर्घिकां बलवदास्फालनभयादिव समुत्तरत्तरङ्गलधितमणिसोपानपथां परस्परलोलाप्रहारदोहलावचितनलिनशयनसमुड्डीनकलहंसधवलपक्षपटलमुहूर्तघटितवियद्वितानामतानीत् । कदाचिच्चन्द्रशालातलप्रसारितशयनमध्यं तनुमध्यया सहाधिवसन्वसन्तयामिनीषु निरन्तरमाविर्भवद्भिरमृतकरकिरणकन्दलैः कंदर्पदन्तावलकर्णतालावचूलचामरै
११. अध तस्य क्रीडाप्रकारं वर्णयितुमाह-कदाचिदिति-कदाचित् जातुचित् प्रहतं ताडितं १० मृदुमृदङ्गं मन्थरमुरजं यस्मिन् तत् तथाभूतं रङ्ग नृत्यस्थानम् अधिवसन् अधितिष्ठन् 'उपान्वध्यावसः'
इति द्वितीया, विलासिनीनां रूपाजीबानाम् अतिचतुरैरतिकुशलैः करणबन्धन् त्यमुद्राविशेषैर्वन्धुरं मनोज्ञम् , अनङ्गतन्त्रस्य कामशास्त्रस्य शिक्षायां विचक्षणा निपुणा ये विटविदषका शृङ्गारसहायकपात्रविशेषास्तेषां परिषदा समूहेनोपास्यं सेवनीयम् लास्यं नृत्यम् अवालोकिष्ट अपश्यत् । कदाचिदिति-कदाचिज्ञातुचित् अनुगतं लयक्रमेण सहितं यद् वीणावेणूनां विपञ्चीवंशवाद्यानां रणितेन शब्देन रमणीर्य मनोहरं गीतं गानम् आकर्ण यन् कर्णपारण श्रवणभोजनं श्रवणतृप्तिमिति यावत् अकार्षीत् । कदाचिदिति-कदाचिद् चिकचकुसुमानां प्रफुल्लपुष्पाणां परिमलेन सौगन्ध्यातिशयेन तरलाश्चपला ये मधुकरा द्विरेफास्तेषां कलरवेण मधुरास्फुटशब्देन मुखरिते वाचालिते लतामण्डपे निकुळे विरचितं निर्मित यकिसलयशयनं पल्लवशथ्या तस्मिन् कृशोदरी विजयामरीरमत् क्रीडयामास । कदाचिदिति-करिण्याः सखति करिणीसखः करेणुका
सहित: 'राजाहासखिभ्यष्टच' इति टच्समासान्तः । वनकरीव काननवारण इव दीप दृशी यस्यास्तया२० विशाललोचनया विजयया सह विहरन्क्रीन विहारदीधिको क्रीडाबापीम्, बजवदत्यधिकं यदास्फालनं
ताडनं तस्य भयादिव प्रासादिव समुत्तरद्भिः समुत्तिष्ठद्विस्तरङ्गमङ्गलखितं मणिसोपानपथं रखनेणिमार्ग यस्यास्ताम् , परस्परमन्योऽन्यं लीलाप्रहारस्य केलीताडनस्य दोहलेन वान्छयावचितानि नोटितानि यानि नलिनशयनानि कमलासनानि तेभ्यः समुडीनाः समुत्पतिता ये कलहंसाः कादम्बास्तेषां धवलपक्षपटलेन शुक्लपक्षसमूहेन मुहूर्त धटिकाद्वयं यावद घटितं रचितं वियद्वितानं गगनचन्द्रोपकं यस्यां तथाभूताम् अतानीत् । कदाचिदिति-चन्द्रशालासले हम्योपरिमागे प्रसारित विस्तारितं यच्छयनं तस्य मध्यम् तनुमध्यया कृशावलग्नया वल्लभया सहाधिवसन् सार्धमधिशयानो बसन्तयामिनीषु ऋतुराजरजनीषु निरन्तरं निरन्तरायं यथा स्यात्तथा, आविर्भवभिः प्रकटीभवद्भिः कन्दर्पदन्तावलस्य कामकरिणः कर्णतालयो
६. ११. वह कभी तो जिसमें धीमा-धीमा तबला ठुक रहा था ऐसी रंगभूमिमें बैठ, वेश्याओंके अत्यन्त चतुर नृत्यासनोंसे सुन्दर, और कामशास्त्रकी शिक्षामें निपुण विट और ३० विदूषकोंके समूहसे सेवनीय नृत्य देखता था। कभी अनुकूल वीणा और बाँसुरीके स्वरसे
सुन्दर, स्त्रियोंका संगीत सुनता हुआ कानोंको सन्तुष्ट करता था। कभी खिले हुए फूलोंकी सुगन्धिसे चपल भौंरोंकी मधुर ध्वनिसे शब्दायमान निकुंजमें नये-नये पल्लवोंसे विरचित शय्यापर कृशोदरी विजयाको रमण कराता था। कभी हस्तिनीसे सहित जंगली हाथीके समान दीघेलोचना विजयाके साथ क्रीड़ावाली में विहार करता हुआ उसे जोरदार आस्फालनके भयसे ही मानो उठती हुई तरंगोंसे लंधित मणिमयो सीढ़ियोंसे युक्त, एवं पारस्परिक लीला प्रहारकी इक्छासे तोड़े हुए कमलरूपी शय्यासे उड़े कलहंसोंके सफेद-सफ़ेद पंखोंके समूहसे जिसके आकाशमें मुहूर्त-भर के लिए चँदोवा बाँध दिया गया था ऐसी करता था। और कभी राजमहलके उपरितन खण्डमें बिछायी हुई शय्याके मध्यमें कृशांगी विजयाके साथ
२५