________________
गद्यचिन्तामणिः
[ ९ नृपेण सह -
चतुरुपायविजृम्भितयशसि पराक्रममृगपतिनिवासजङ्गमजगतीभृति गभीरिमगुणगर्हितोदन्वति स्थैर्य परिहसितकुलशिखरिणि कुलिशकठिनमनसि संकटेऽप्यखेदिनि निखिलारिचक्राक्रमणनिष्ठे काष्ठाङ्गारनामनि निरस्ततन्द्रे मन्त्रिणि निवेशयितुं राज्यभारमारभत ।
३८
ॐ तथा प्रारभमाणेच राजांन राजनीतिकुशलाः कुटिलेतरबुद्धयः कुलत्रमागतिभाज: ५ कुत्सितकर्मपराचीन चेतोवृत्तयः शमिनि वयसि वर्तमानाः कतिचन सचिवाः समेत्य कृतप्रणामाः सप्रणयं व्यजिज्ञपन्-'देव, देवेनाविदितं किंचिदस्तीति न प्रस्तुमहे कथयितुम् । तदपि देवपादयोरनितरसाधारणी भक्तिरस्मान्मुखरयति । तदुचितमनुचितं वा प्रणयपरदशैरस्माभिरभिधीमानमा कर्णयितुमर्हति स्वामी । देव स्वहृदयमपि राज्ञा न विसूम्भणीयम् । किमुतापरे । इयं
राजनय मार्गे येन तस्मिन्, फलितैः सफलीभूतैश्चतुरुपायैः सामदानदण्डभेदै विजृम्भितं यशां यस्य तस्मिन्, १० पराक्रम एवं मृगपतिः सिंहस्तस्य निवाखाय जङ्गमजगतीभृद् गतिशील पर्वतस्तस्मिन् गर्भीरिमगुणेन गाम्भीर्थगुणेन गर्हितो निन्दित उदन्वान्सागरो येन तस्मिन् 'उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः' इत्यमरः स्थैर्येण दायेन परिहसितस्तिरस्कृतः कुलशिखरी येन तस्मिन् कुलिशचक्कठोरं कठिनं मनो यस्य तस्मिन् संकटेऽपि व्यसनेऽपि, अखेदिनि खेदरहिये, निखिलारिचक्रे सममशत्रुसमूहे आक्रमणे निष्ठा समादरो यस्य तस्मिन् काष्ठाङ्गारनामनि, निरस्ततन्द्रे निरालस्ये मन्त्रिणि सचिवे राज्यभारं निवेशयितुम् १५ आरमत तत्परोऽभूत् ।
६९. तथेति - तथा तेन प्रकारेण राजनि प्रारभमाणे सति राजनीतिकुशला नृपनीतिनिष्णाताः, कुटिलेतरबुद्धयः सरलप्रज्ञाः, कुलक्रमादागतिं भजन्तीति तथा कुत्सितकर्मणो निन्दितकार्य स्पिराचीना विमुखाचेतोवृत्तिर्येषां ते शमिनि वयसि वृद्धावस्थायां वर्तमानाः कतिचन केऽपि सचित्रा अमात्याः समेत्य कृतः प्रणामो यैस्तथाभूताः सन्तः सप्रणयं सस्नेहं व्यजिज्ञपन् निवेदितवन्तः । देव, हे राजन्, २० देवेन भवता अविदितमज्ञातं किंचिदस्तीति हेतोः कथयितुं न प्रस्तुमहे नोद्यता महामो वयमिति शेषः । तदपि तथापि देवपादयोर्भवश्चरणयोः अनितरसाधारणी अनुपमा भक्तिः अस्मान्मुखरयति वाचालयति कथयितुं प्रेरयतीति यावत् । तस्मात् प्रणयपरवशैः स्नेहाधीनैः अस्माभिरभिधीयमानं कथ्यमानं वच उचितं युक्तमनुचितमयुक्तं वा भवतु, आकर्णयितुं श्रोतुमर्हति योग्योऽस्ति स्वामी । देव राजन्, राज्ञा स्वहृदयमपि न विसम्मणीयं न विश्वसनीयं किमुतापरेऽन्ये जना विस्रम्भणीयाः । इयं हि स्वभावेन
२५ जानता था, सफलताको प्राप्त हुए साम आदि उपायोंसे जिसका यश बढ़ रहा था, पराक्रमरूप सिंह के निवास करने के लिए जो चलता-फिरता पर्वत था, गाम्भीर्यरूप गुणसे जिसने समुद्रको निन्दित कर दिया था, अपनी स्थिरतासे जिसने कुलाचलकी खिल्ली उड़ायी थी, जिसका मन के समान कठोर था, जो संकट के समय भी कभी खेदखिन्न नहीं होता था, जो नुदपर आक्रमण करने के लिए तैयार बैठा था एवं अनुत्साहको जिसने दूर ३० भगा दिया था।
६. ६. जब राजा यह करने के लिए तत्पर हुआ तब राजनीति में कुशल, सरल बुद्धि के धारक, कुलकमागत, खोटे कार्यसे विमुखहृदय एवं वृद्ध अवस्थामें वर्तमान कितने ही मन्त्रियोंने आकर प्रणाम करते हुए बड़े स्नेहसे इस प्रकार प्रार्थना की- 'हे देव ! आपके द्वारा कुछ अविदित है इसलिए हम कहनेके लिए उद्यत नहीं हो रहे हैं । फिर भी आपके चरणों में ३५ जो असाधारण भक्ति हैं वह हम लोगोंको मुखरित कर रही हैं कुछ कहने के लिए प्रेरित कर रही है । अतः उचित हो चाहे अनुचित, स्नेहके वशीभूत हुए हम लोगोंके द्वारा कही हुई
१ क० ख० ग० गम्भीरिम ।