________________
T
1
- राशीवर्णनम् ]
प्रथमो लम्भः
पातिव्रत्यस्य, ग्रकर्षरेखेव स्त्रीत्वस्य मूर्तिरिव दाक्षिण्यस्य कीर्तिरिव चारित्रस्य, विजयपताकेव पञ्चशरस्य विजया नाम महिषी ।
३७
८. तस्यां सौन्दर्य पुनरुक्ताभरणानामबलानां वर्गे सत्यपि निसर्गत एव नरपतेरर मतान्तःकरणम् । अथ स राजा रजनीकरकिरणकन्दलविपक्षेः क्षीरजलधिजठर लुठित फेनपटलविशदेश:पल्लवेरापादित दिशा विलासिनीकर्णपूरः पूरित मनीषिजन मनोरथः प्रतिबलजलधिमथनमन्दरेण ५ वसुंधरामयूरीनिवासविटपेन वीरलक्ष्मीकरेणुकालानेन भुजस्तम्भदम्भोलिना खण्डित भूभृन्मण्डल: कर्तव्यमपरमपश्यन्नवश्येन्द्रियः कुसुमचापचापलानि सफलयितुं सर्वाकाराभिरामया रामया सहाभिलषन् स्वभावनिशितधिषणावधी रितपुरुहूत पुरोधसि यथावदवगतराजनीतिवर्त्मनि फलित
aterer प्रकर्षखेव चरमरेखेय, दाक्षिण्यस्य सरलताया मृतिरिव चारित्रस्य सदाचारस्य कीर्तिरिव, पञ्चशरस्य कामदेवस्य विजयपताकेन विजयवैजयन्तीव ।
१०
८. तस्यामिति - सौन्दर्येण लावण्येन पुनरुकान्याभरणानि यासां तासाम्, अचलानां नारीणां वर्गे समूह सत्यपि नरपतेः सत्यंवरमहाराजस्य अन्तःकरणं हृदयं तस्यामेव विजयायामेव, भरमवाक्रीडत् प्रीतमासीदिति मावः । अथेति — अथानन्तरं स राजा सत्यंधरः रजनीकरकिरणकन्दानां विपक्षास्तैः चन्द्रमरीचिमण्डलादपि धवलैरिति भावः, श्रीरजलधिजठरे क्षीरसागरमध्ये लुठितं यत्फेनपटलं डिण्डीरराशिस्तद्वद् त्रिशास्तैः । यशः पल्लवैः कीर्तिकिसलयैः, आपादितानि प्रापितानि दिशाविलासिनीनां १५ काकामिनीनां कर्णपुराणि कर्णाभरणानि येन सः पूरिता मनीषिजनानां विद्वजनानां मनोरथा येन सः प्रतिबलजलधेः शत्रुसागरस्य मथने विलोडने मन्दरेण मन्दराचलेन, वसुंधरा पृथिव्येव मयूरी तस्या निवासविटप निवासशाखा तेन वीरलक्ष्मीवीरश्रीरेव करेणुका हस्तिनी तस्या आलानो बन्धनस्तम्भस्तेन, भुजस्तम्मदम्मोलिना बाहुस्तस्मवज्रेण खण्डित भूभृतां राज्ञामंत्र भूभृतां पर्वतानां मण्डलं येन सः, अपरमन्यत् कर्तव्यं कार्यम् अपश्यन् अवश्यानीन्द्रियाणि यस्य सोऽस्वाधीनीकृतहृषीकः, सर्वाकारंण निखिला- २० कारेणाभिरामा सुन्दरी तथा रामया सह कुसुमचापस्य मदनस्य चापलानि सफलयितुं सफलानि कर्तुम्, अभिलषन् वान्छन्, स्वभावेन प्रकृत्या निशिता तीक्ष्णा या विषणा बुद्धिस्तयावधीरितोऽनादृतः पुरुहूतपुरोधा इन्द्रपुरोहितो बृहस्पतिरिति यावद् येन तस्मिन् यथावद् याथार्थ्येनावगतं ज्ञातं राजनीतिव
व्रत्य धर्मके मनोरथकी सिद्धि थी, स्त्री पर्यायकी श्रेष्ठताकी रेखा थी, सरलला की मूर्ति थो चारित्र कीर्ति थी, और कामदेवकी मानो विजयपताका थी ।
२५
8. ८. सौन्दर्य के कारण जिनके आभूषण पुनरुक्त हो रहे थे ऐसी स्त्रियों का समूह विद्यमान रहनेपर भी राजा सत्यंधरका हृदय स्वभावसे उसी एक विजयामें रमण करता था । अथानन्तर चन्द्रमाकी किरणरूप कन्दलके प्रतिद्वन्द्वी एवं क्षीरसागर के मध्य में लोटते हुए फेनपटल के समान सफेद यशरूपी पल्लयोंके द्वारा जिसने समस्त दिशारूपी स्त्रियोंके कानोंमें कर्णफूल पहना रखे थे, शत्रुओंको सेनारूपी समुद्र को मथनेके लिए मन्दरगिरि, पृथिवी - ३० रूपी मयूरीके निवास करनेके लिए वृक्षको शाखा, एवं वीरलक्ष्मीरूपी हस्तिनीको बाँधने के लिए स्तम्भस्त्ररूप सुजारूप वज्र के द्वारा जिसने समस्त राजाओं ( पक्ष में पर्वतों ) के मण्डल - को खण्ड-खण्ड कर दिया था ऐसा राजा सत्यंधर करने योग्य अन्य कार्यको न देख इन्द्रियोंको स्वाधीन न रख सका। इसलिए सर्वाकारसे सुन्दर रानी विजयाके साथ कामसम्बन्धी चपलताओंको सफल करनेकी अभिलाषा रखता हुआ, काष्ठाङ्गार नामक उस मन्त्रीपर राज्यका भार रखने को तैयार हो गया जिसने अपने स्वभाव से ही तीक्षण बुद्धिके द्वारा ३५ इन्द्र के पुरोहित - बृहस्पतिको तिरस्कृत कर दिया था, जो राजनीतिके मार्गको अच्छी तरह