________________
1
[ ६ राजपुया - यस्य च निहितहारोपधानमधरितकनकगिरिशिलातल विशालं वक्षःस्थलमधिशयाना स्वभावसंकट कमलकोटकुटी दुरासिकादुःखमत्याक्षील्लक्ष्मीः । यस्य च प्रलय समयविलसदनेकदिनकरकिरणदुःसहे प्रति प्रतापानले जलनिधिजलमध्यघटितां प्राक्तनी स्थिति बह्वमन्यत मधुसूदनः । यस्य च दुःसहप्रतापेऽपि सुखोपसेव्यता सौकुमार्येऽप्यार्यवृत्तिः अतिसाहसेऽप्यखिल५ जनविश्वास्यता विश्वंभराव हनेऽप्यखिन्नता सततवितरणेऽप्यक्षीणकोशता परपरिभवाभिलाषेऽपि परमकारुणिकता पञ्चशरपारतन्त्र्येऽपि पाकशालिता परमदृश्यत । यस्य चारम्भमभिमतावाप्तिः, प्रज्ञां विद्याधिगमः पराक्रमं परिपन्थिपरिक्षयः, परहितनिरति जनानुरागः, प्रतापं दुराक्रमता, त्यागं भोगावली, काव्यरसाभिज्ञतां कविसंग्रहः, कल्यसंधवां कल्याणसंपत्तिः, न्यायनेतृतां दृढ प्रतिश
यस्य च राज्ञो निहितं स्थितं हार एवोपधानं यत्र तत् । अधरितं तिरस्कृतं कनकगिरिशिलातलं सुमेर१० शिलावलं येन तत् तथाभूतं विशालं विस्तृतं वक्षःस्थलमुरःस्थलम् अधिशयाना लक्ष्मीः स्वभावेन संकट संकीर्ण यत्कमलकोटरं तदेव कुटीरं हस्वा कुट्टी तस्मिन् दुरासिकया दुर्निवासेन यद् दुःखं तत् अत्याक्षीत् मुन | यस्य चेति - यस्य च राज्ञः प्रलयसमये संहारसमये विलसन्तो विभ्राजमाना येऽनेकदिनकरा -
३०
गद्यचिन्तामणिः
។
किरणा व दुःसहस्तस्मिन् प्रतापानले प्रतापपावके प्रसर्पति सति मधुसूदन नारायणः । जलनिधिमध्यदितां समुद्रमध्ययोजितां प्राकनीं पूर्वा स्थिति वह्नमन्यत श्रेष्ठाममन्यत । यस्य चेति — यस्य १५ राज्ञश्च दुःसहवासी प्रतापश्च दुःसहप्रतापस्तस्मिन् सत्यपि सुखोप सेव्यता सुखेनोपसेव्यता सुखारा धनीयता । सौकुमार्येऽपि कष्टसहन सामर्थ्याभावेऽपि आर्यवृत्तिः श्रेष्टजनाचारः । अतिसाहसेऽपि प्रचण्डसध्येऽपि अखिलजन विश्वास्यता निखिल जनविश्वासपात्रता । विश्वम्भरा वहनेऽपि पृथिवीभारधारणेऽपि अखिन्नता खेाभावः । सततवितरणेऽपि निरन्तरदानेऽपि अक्षीणकोसता असमाप्तकोशता । परपरिभवामिलायेऽपि शत्रुतिरस्कारमनोरथेऽपि परमकारुणिकता परमदयालुता 'स्याद् दयालुः कारुणिकः' इत्यमरः । २० पञ्चशरपारतन्त्र्येऽपि मदनपारवश्ये सत्यपि पाकशालिता निष्ठाशालिता श्रद्धावत्वमित्यर्थः । परमत्यन्तम् ---यस्य च राज्ञ
अष्टश्यत । 'पाको जरापरीपाके स्थाल्यादी क्लेदनियो:' इति विश्वलोचनः । यस्य चेति--- आरम्भ कार्य प्रारम्भम् अभिमतावाप्तिरिष्टवस्तुप्राप्तिः, प्रज्ञां बुद्धिं विद्याधिगमो विद्यानामाम्वी शिक्यादीनामधिगमो ज्ञानं प्राप्तिर्वा, पराक्रमं परिपन्थिपरिक्षयः शत्रुसंहारः परहितनिरतिं परहिते निरतिस्तां परहिततत्पश्तो जनानुरागो लोकप्रीतिः प्रतापं तेजो दुराक्रमता दुर्धर्षता, त्यागं दानं भोगावली बिरुदावली,
२५ प्राप्त नहीं हो रही थी। जिसपर हार रूपी तकिया रखा हुआ था और जिसने सुमेरु पर्वतके शिलातलको तिरस्कृत कर दिया था ऐसे उस राजाके विशाल वक्षस्थलपर शयन करनेबाली लक्ष्मीने स्वभावसे ही संकीर्ण कमलकी कोटर रूपी कुटिया में कष्टपूर्वक रहनेका दुःख छोड़ दिया था । प्रलय कालमें सुशोभित अनेक सूर्योकी किरणोंके समान दुःसह उस राजाकी प्रताप रूपी अग्नि के फैलनेपर नारायण समुद्र के जलके बीच में स्थित अपनी पुरानी स्थितिको ३० ही अच्छा मानते थे । दुःसह प्रताप के रहनेपर भी उस राजामें सुखोपसेव्यता, सुकुमारता रहनेपर भी आर्यजनों के योग्य उत्तम आचार, अत्यधिक साहस के रहते भी समस्त मनुष्योंकी विश्वासपात्रता, प्रथिवीका भार धारण करनेवर भी अखिन्नता, निरन्तर दान देनेपर भी भण्डारको अक्षीणता, शत्रुओंके तिरस्कारकी अभिलाषा होनेपर भी परम दयालुता और कामकी परतन्त्रता होनेपर भी अत्यधिक पवित्रता देखी जाती थी । इष्टफलकी प्राप्ति उसके ३५ कार्यारम्भको विद्याकी प्राप्ति बुद्धिको, शत्रुओंका क्षय पराक्रमको, मनुष्योंका अनुराग परहितकी तत्परताको, अनाक्रमण प्रतापको विरुदावली दानको कवियों का संग्रह काव्यरसकी
१.
१ म० क० म० शिलातलं विशालं ।