________________
[प्रथमो लम्भः] श्रियः पतिः पुष्यतु वः समीहितं त्रिलोकरक्षानिरतो जिनेश्वरः । यदीयपादाम्बुजभक्तिशीकरः सुरासुराधीशपदाय जायते ।।१।। प्रणम्रगीर्वाणकिरीटभानुभिः प्रफुल्लपादाम्बुरुहान् गणेश्वरान् । प्रणौमि येषां स्तुतिरेव भारती कवित्वशक्त्यै भुवि कल्पते नृणाम् ।।२।।
A
NAN
--.-
-.-..-...
.....
..
....
..
........---
[संस्कृत-टीका ] श्रेयः श्रियं दिशतु में वीरो विज्ञानमासितस्वात्मा। रागद्वेषविमुको निरिखस जनानन्दहितदेष्टा ॥५॥ शेषा अपि तीर्थकराः संसारध्यान्तनाशने रक्यः । तिमिरं हन्तु सद्यो मन्मानसमन्दिरावसथम् ॥२॥ स्थारपदभ्राजिता जीयाज्जैनी वाणी सुखावनिः । तत्त्वोपदेशनिष्णाता सर्वकल्याणकारिणी ॥३॥ गुरवः कुन्दकुन्दाद्या रत्नत्रयविभूषिताः । दर्शयन्तु सदा पथ्यं पन्थानं मां शिवश्रियाः ॥४॥ गद्यचिन्तामणिरयं सत्यं चिन्तामणीयते । जीवकोदन्तविभ्राजी काव्यपीयूषपायिनाम् ॥५॥
___वादीमसिंहो जितनादिसिंहो जीयादसौ वादकलामवाणः ।
निर्माय यो ह्येकमिमं महान्तं ग्रन्धं बुधश्लाघ्यसमो बभूव ॥६॥ गधचिन्तामणिमहं विवृणोमि समासतः । वादीमसिंहसूर्यारमा साहाय्यं विदधातु मे ॥७॥
अथानवद्यगद्यपद्यरचनानुपमचातुरीचमत्कृताखिलसूरि श्रीवादीमसिंह सूरिः प्रारिप्सितम्रन्थ- १५ निर्विघ्नसमाप्त्यर्थ स्पेष्टदेवताममिष्टोतुमाह-नियः पतिरिति-श्रियः अनन्तचतुष्करूपाया अन्त. रङ्गाया अष्टप्रातिहार्यरूपायाश्च बहिरङ्गाया लक्ष्म्याः पतिः, त्रिलोकरक्षायां निरतस्तत्परः स जिनेश्वरोऽहन्पर. मामा, वो युगमाकं समीहितं मनोरथं पुष्यतु यदीयपादाम्बुजयोक्त्याः शीकरः कणः सुरासुराधीशपदाय देवदानवेन्द्रपदप्राप्तये ( तादध्ये चतुर्थी ) जायते ॥१॥ प्रणति-प्रणम्रगीर्वाणानां नतामराणां किरीटभानुमिम कुटमरीचिमिः प्रफुलरे पादाम्बुरुहे येषां तान् विकसितचरणारविन्दान् गणेश्वरान् वृषभसेनादि- २० गणधरान् प्रणामि प्रकर्षण रतौमि येषां गणधराणां स्तुतिरेव मारती स्तुत्यात्मिका वाणी भुवि पृधियां मृणां लोकानां कवित्वशक्त्यै कविता निर्माणशक्त्य कल्पते जायते ॥२॥
-
-.:.-...-
.
[हिन्दी अनुवाद]
महाबीरपदद्वन्द्व चन्दिस्वा पश्मनिभम् । गमचिन्तामणिग्रन्थं सटीक विदधाम्यहम् ।।
जो अनन्त चतुष्टय रूप अन्तरंग लक्ष्मी और अष्टप्रातिहार्य रूप बहिरंग लक्ष्मीके । स्वामी हैं, तीनों लोकोंकी रक्षामें तत्पर हैं और जिनके चरणकमलोंकी भक्तिका एक कण मुरेन्द्र एवं असुरेन्द्रका पद प्रदान करनेवाला हैं, वे जिनेन्द्र देव तुम सबके मनोरथको पुष्ट कर ।। १ नम्रीभूत देवों के मुकुटरूपी सूर्योसे जिनके चरणकमल विकसित हो रहे थे एवं जिनकी स्तुतिरूपी वाणी पृथिवीपर मनुष्योंके लिए कवित्व-शक्ति प्रदान करती है. उन गण