________________
- वृतान्तः ]
-
सप्तमो लम्भः
२८९
भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभापूरतरङ्गितहरिति राजलक्ष्मीनिःश्वासपरिमलेन कालागुरुघूमेन कवलितोदरे चलितवारविलासिनीनृपुररशनावलयरववाचाले क्षीरोदपुलिन मण्डलाकार विपुलविशदशयनशताकीर्णे घनत रघुसृणघनसार मृगमदपटवासकुसुम सौरभमनोहारिणि महति मण्डपे पाण्डुरैमौक्तिक चन्द्रोपकाधोभागनिवेशितस्य प्रांशुपुरुषलङ्घनीयस्य समरोत्खातरिपुदन्तिदन्तारचितपादपीठस्य पट्टांशुकच्छेच्छुरितोपवानस्याच्छाच्छदुकूलप्रच्छदस्य निर्लिप्त नेक रत्न किरणविसर- ५ परोतपर्यन्तस्य पर्यङ्कस्य मध्ये स्थितं सानुमत्सानुनि सुखसंनिविष्टमिव नखरायुषं पार्श्वदृश्यमानेन
--
विशेषणान्याह -- भासुरेति भासुरा देदीप्यमाना येऽनन्तरत्नस्तम्भा अपरिमितमणिस्तम्भास्तेषां प्रभायाः कान्त्याः पुरेण तरङ्गिताः कल्लोलिता व्याप्ता इति यावत् हरितो दिशा यस्मिंस्तस्मिन् राजलक्ष्म्या राजश्रिया निश्वासस्येव मुखमारुतस्येत्र परिमलो गन्धातिशयो यस्य तेन कालागुरुधूमेन कृष्णागुरुचन्दन धूम्रेण कंबलितोदरे व्याप्तगर्ने, चलितेति चलितानामितस्ततो गतानां वारविलासिनीनां वेश्यानां ये नृपुररशना १० वलया मञ्जीरकमेखलाकङ्कणास्तेषां रवेण शब्देन वाचाले शब्दायमाने, क्षीरोदेति-क्षीरोदस्य पयः पाथोधेः पुलिनमण्डलाकाराणि सैकततसदृशानि यानि विपुलविशदानि विशालस्वच्छानि शयनानि पर्यङ्कास्तेषां शतेनाकीर्णे व्यासे, घनतरेति-- घुसृणः कुङ्कुमः, घनसारः कर्पूरः, मृगमदः कस्तूरी, पटवासः सुगन्धिचूर्णम्, कुसुमानि पुष्पाणि एषां सर्वेषां इन्द्रः घनतरं निविष्टतरं यद् घुसणादीनां सौरमं सौगन्ध्यं तेन मनो हरतीत्येवं शोलस्तस्मिन् महति विशाले मण्डपे आस्थानास्पदे । अथ राशी विशेषणान्याह -- पाण्डुरेति-- १५ पाण्डुरस्य शुक्लस्य मौक्तिकचन्द्रोपकस्य मुक्ताफलमय वितानस्याधोमागे निवेशितस्य स्थापितस्य प्रांशुपुरुषेण सूत पुरुषेण लङ्घनीयस्य समतिक्रमणीयस्य समरे युद्धे उत्खाता उत्पाटिता ये रिपुदन्तिदन्ता वैरिवारणरदनास्तैरचितं पादपीठं चरणासनं यस्य तस्य, पांशुकस्य क्षौमवस्त्रस्य च्छेदेन खण्डेनच्छुरितं प्रावृतमुपधानं यस्य तस्य, अच्छाच्छस्य अतिस्वच्छस्य तुकूलस्य क्षौमस्य प्रच्छद उत्तरच्छदो यस्य तस्य, निर्लिप्तानि निःस्थूतानि यानि नैकरलानि विविधमाणिक्यानि तेषां किरणविसरेण रश्मिसमूहेन परितो २० व्यासः पर्यन्तः पार्श्वप्रदेशो यस्य तथाभूतस्य पर्यङ्कस्य पश्यङ्कस्य मध्ये स्थितं विद्यमानम्, अतएव सानुमतः पर्वतस्य सानु शिखरं तस्मिन् सुखसंनिविष्टं सुखेन विद्यमानं नखरायुधमिव सिंहमिव,
१. म० पाण्डर |
३७
रूपी लता के आश्रय वृक्षों के समान बड़े-बड़े द्वारपालोंसे जो युक्त थे ऐसे कितनी हो कक्षाओंके अन्तरालको लाँघकर उस महामण्डपमें जा पहुँचे जहाँ कि देदीप्यमान अनन्त रत्नोंके खम्भोंकी बढ़ती हुई कान्तिके पूरसे दिशाएँ लहरा रहीं थीं । जहाँ राजलक्ष्मीकेशवासी- २५ च्छवास के समान सुगन्धित कालागुरुके धूपसे मध्यभाग व्याप्त हो रहा था। चलती हुई वेश्याओंके नूपूर, करधनी और चूड़ियोंको झनकार से जो शब्दायमान था। क्षीरसागर के तटके समान विशाल एवं सफेद सैकड़ों शय्याओंसे जो व्याप्त था । तथा अत्यधिक केशर-कपूरकस्तूरी- पटवास और फूलोंकी सुगन्धिसे जो मनको हरण करनेवाला था उस महामण्डपमें जो सफेद मोतियोंके चंदोवाके नीचे रखा हुआ था, जो किसी ऊँचे पुरुषके द्वारा लाँघने के योग्य था, जिसके पैर रखनेकी चौकियाँ युद्ध में उखाड़े हुए शत्रुओं के हाथी दाँत से निर्मित थीं, जिसपर रखी तकियाँ रेशमी वस्त्रके खण्डोंसे व्याप्त थीं, जिसपर अत्यन्त स्वच्छ रेशमका चद्दर बिछा हुआ था, और लगे हुए, अनेक रत्नोंकी किरणों के समूहसे जिसका समीपवर्ती प्रदेश व्याप्त हो रहा था ऐसे पर्यकके मध्य में स्थित उस राजाको देखा कि जो पर्वत के शिखरपर सुखसे बैठे हुए सिंह के समान जान पड़ता था। पास में रखे हुए पद्मराग मणि
३०
३५
.