SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २८८ गद्यचिन्तामणिः [१९२ हेमामपुरीतस्य महिषी सदा संफुल्लवदननलिना नलिनीमतिशयाना नारी नलिनी नाम । तयोः पुत्राः सुमित्रधनमित्रादयः । तेष्ववेहि मामप्यन्यतमम् । तातपादोऽस्माकं पण्डितानत्र कोदण्डविद्यायां चिरस्य विचिनोति । तस्मात्तत्र भद्रेण यातव्यम्' इति । १६२. अथ तन्निरोधेन तथेति सुदर्शनमित्रः सुमित्रेण समं व्रजन्गन्धगजघटामदपरि५ मलमेदुरगन्धव हानि प्रणिहितमौहर्तिकावधारितनाडिकाच्छेदनताडितपटहानि प्रबुद्धसायुधयोधवृन्द प्रारब्धसंग्रामसाहसकथान्यतिधवलकञ्चुकोष्णोषधारिभिर्वारिदभयनि गढस्थितैरिव हंसर्गहोतकोक्षेयकवेत्रदण्डेर्दण्डनीतिलतासंश्रयगुमैरिव प्रतिहारमहत्तरैरधिष्ठितानि कानिचिकक्षान्तराण्यतिक्रम्य बदननलिनं मुखकमलं यस्यास्तथाभूता नलिनों कमलिनीम् अतिशयाना पराभवन्ती नलिनी नाम महिषी कृताभिषेका राजी वर्तत इति शेषः । सा च स इति तो तयोः पुत्राः सुताः सुमित्राशन मिग्रादयः सन्ति । १० तेषु सुमित्रादिषु मामपि अन्यतमम् एकम् अवेहि जानीहि । चिरस्य चिरकालेर अस्माकं तातपादोऽपि पितापि अत्रास्त्रां कोदण्डविद्यायां धनुर्विद्यानां पण्डितान विचिनोति अन्वेषयति । तस्मादतोस्ता नगर्या भद्रेण मवता यातव्यं गन्तव्यम्' इति । १९२. अथेति-अथानन्तरं तनिरोधेन तदाग्रहेण तथेति --'तथास्तु' इति स्वीकृत्य सुदर्शनो मित्रं यस्य तथाभूतो जीवकः सुमित्रेण समं दृइमित्रसुतेन सह प्रजन् गच्छन्, कानिचिकक्षान्तराणि २५ अतिक्रम्य महति मण्डपे राजानम् अद्राक्षीत् इति कर्तृकम किया संबन्धः । अथ कक्षान्तराणि विशेष यितुमाह-गन्धाजेति -गन्धगजानां मदनाविमतङ्ग-जानां घटायाः समूहस्य परिमलेन सौगन्ध्यातिशयेन मदुरः पुष्टो गन्धवहो वायुर्येषु तानि, प्रणिहितेति-प्रणिहिताः सावधाना ये मौहर्तिका दैवज्ञास्तैरवधारित निश्चितं यन् नाडिकाग्छेदनं घटिकाविमागस्तस्मिन् ताडिता अभिहताः पटहा ढक्का येषु तानि, प्रबुद्धेति-प्रबुद्धा जागृताः सायुधाः सशस्त्रा ये योधाः सैनिकास्तेषां वृन्देन समूहेन प्रारब्धाः संग्राम२० साहसस्य रणावदानस्थ कथा येषु तानि, अतिधवले अतिशुक्ले कञ्जकोणीषे कूर्पासशिरस्त्राणे धरतीत्येवं शीलास्तैः वारिदानां मेघानां भयेन निगृढस्थिता अन्तर्हितस्थितास्तैः इंसैरिव मरालैरिव, गृहीता ता: कौशेयकक्षेत्रदण्डाः कृपाणवेत्यष्टयो यैस्तथाभूतैः, दण्डनीतिरेव लता घल्ली तस्याः संश्रयदमा आश्रयः तरवस्तैरिव, प्रतिहारमहत्तरैः श्रेष्ठप्रतिहारैः अधिष्टितानि सहित्तानि कानिचित् कान्यपि कक्षान्तराणि कक्षावकाशान 'अन्तरमवकाशावधिपरिधानान्तद्धिभेदतादथ्य' इत्यमरः, अतिक्रम्य व्यतीत्य । अथ मण्डपस्य नामका नत्रचूडामणि-क्षत्रियशिरोमणि रहता है। उसकी सदा फूले हुए मुखकमलसे युक्त तथा कमलिनीको पराजित करनेवाली नलिनी नामकी स्त्री है। उन दोनों के सुमित्र तथा धनमित्र आदि अनेक पुत्र हैं। मुझे भी उन्हीं में से एक पुत्र समझिए। बहुत समयसे हमारे पिताजी यहाँ धनुर्विद्यामें निपुण विद्वानोंको खोज रहे हैं । इसलिए आपको उनके समीप चलना चाहिए। ६१६२. अथानन्तर सुदर्शन यक्षके मित्र जीवन्धरस्वामी राजपुत्र सुमित्रके आग्रहसे 'तथास्तु' कह उसके साथ राजभवनकी ओर चल पड़े और क्रम-क्रमसे मदमाते हस्तिसमूहके मदकी सुगन्धिसे जहाँ वायु वृद्धिको प्राप्त हो रही थी, अपने कार्यमें सावधान रहनेवाले ज्योतिषियों के द्वारा निश्चित घटीकी समाप्ति होनेपर जहाँ भेरी बजायी जाती थी, जागरूक एवं शस्त्रसम्पन्न योधाओंके समूहसे जिनमें संग्रामकी साहसपूर्ण कथाएँ प्रारम्भ की गयी थीं, , एवं अत्यन्त सफेद चोगा और साफाको धारण करनेवाले अतएव मेघोंके भयसे छिपकर स्थित हंसोंके समान अथवा तलवार और बेंतकी छड़ीको धारण करनेवाले अतएव दण्डनीति १. म० सुमित्रेण वजन् । २. म० यौध । ३. म० अतीत्य ।
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy