________________
--
-
-
-
?.
१५
गधचिन्तामणिः
[१०९ गन्धर्वदत्तायाः१०६. इत्येवमभिव्यक्तसप्तस्वरमुन्मिषितग्रामविशेषमुच्छ्वसितमूर्च्छनानुबन्धमतिबन्धुरमाहितकर्णपारणमाकर्ण्य तस्यास्तदुपवीणनमतिप्रहर्षेण परिपत्परिसरतरवोऽपि कोरकव्याजेन रोमाञ्चमिवामुञ्चन् । तिर्यञ्चोऽपि तिरस्कृतापरव्यापतयस्तदाकर्णनदत्तकर्णाः समुत्कीर्णा इव निःस्पन्दनिखिलावयवास्तत्क्षणमैक्षिषत | महीक्षितस्तु मृगेक्षणाया नि:शेषजनकर्षणवशीकरणकार्गणमाकी वल्लकोबादनं वामलोचनेयमनेन विजेतुमिह जगति न केनापि शवयत इति निश्चित्य निःश्वासैः सह पाणिपोडनाशां मुञ्चन्तः पञ्चशरवञ्चिता: कंचित्कालमानतवदननिवेदितनिजहुदयगतविषादा जोषमासिषत । कतिचित्कन्दलितपरिवादिनीपाण्डित्यमात्मानं मन्यमाना: प्रारभ्य वादयितुं परिवादिनीं परिवादमेव फलमलभन्त । एवमुपकमसमसमय एव समा
६१०९ इत्येव मिति-अनेन प्रकारेण अभिव्यक्ताः स्पएं प्रकरिताः सप्तस्वरा निषादादयो यस्मिन् तत् 'नियादर्पभगान्धारपजमध्यमधैवताः । पञ्चमश्वेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वरा' इत्यमरः, उम्मिषिताः प्रकटिता ग्रामविशेषाः स्वराणामारोहावरोहक्रमविशेषा यस्मिन् तत्, उरछ्वसितः प्रकटितो मूछनानामनुबन्धः संयन्धो यस्मिन् तत् , अतिवन्धुरमतिमनोहरम्, आहिता कर्णयोः श्रवणयोः पारणा विशिष्टभोजनं येन सथाभूतं तस्या गन्धर्वदत्तायाः तन् पूर्वोक्ताकारम् उपवीणनं वीणया स्तवनम् आकग्य निशम्य अतिग्रहण प्रमोदाधिक्येन परिषदः मभायाः परिसरतरवोऽपि निकटानोकहा अपि कोरकव्याजेन कुडमलकाटेन रोमाञ्जमिव पुलकमिव, मामुञ्चन दधति स्म । तिर्यच्चोऽपि पशवोऽपि तिरस्कृता तरीकृता अपरच्याहतोऽन्यचेष्टा यैस्ते, तस्योपवीणनस्थावणेन श्रयण दत्तकः प्रदत्त श्रवणाः समुन्कीर्णा इव समुल्लिखिता इव निःस्पन्दा निश्चला निखिलावयवा येषां तथाभूना सन्तः तरक्षणम् ऐक्षिपत . विलोकयामासुः । महीक्षितस्तु राजानस्तु मृगेक्षणायाः कुरङ्गलोचनाया गन्धर्वदत्तायाः निःशेषजनानां निखिललोकानां कर्णवशीकरणे कार्मणं समर्थ वल्लकीवादनं वीणावादनम् आकर्ण्य श्रुग्वा वामे मनोहरे लोचने अस्यास्तथाभूतेयं गन्धर्वदत्ता अनेकवीणावादनेन विजेतुं परामचितुम् इह जगति लोकेऽस्मिन् केनापि बिदग्धेन न शक्यते न पार्यत इति निश्चित्य निर्णय निःश्वासै: सह श्वासोच्छ्वासैः साधं पाणि
शां विवाहाभिलाषं मुञ्चन्तस्यजन्तः पञ्चशरण प्रद्यम्नेन वञ्चिताः प्रतारिताः भवन्तः कश्चित्काल कमपि समयं यावत्, आनतवदनेन विनम्रवक्त्रेण निवेदितः सूचितो निजहृदयगतो निजान्तःकरणस्थिती विषादः खेदो यैस्तथा नूताः जोषं तूरणीं यथा स्यात्तथा आसिषत तस्थुः । कतिचिदिति कतिचित् कियन्तोऽपि कम्दलितमङ्करित परिवादिनीपाण्डित्यं चीणावैदुष्यं यस्य तं तथाभूतम् आत्मानं मन्यमाना परिवादिनी वीणां वादयितुं प्रारभ्य परिवादमेष निन्दामेव फलम् अलभन्त प्राप्नुवन् । एवमिति एव.
६१०९. इस तरह जिसमें सातों स्वर प्रकट थे, जिसमें ग्राम-विशेष प्रकट थे, जिसमें मूर्छनाका सम्बन्ध स्पष्ट था, जो अत्यन्त मनोहर था और जिसमें कानों के लिए पारणास्वरूप सत्र कुछ विद्यमान था ऐसा उसका वीणा व ज्ञाना सुनकर तीब्रहपसे स्वयंवर-सभाके समीपवर्ती वृक्ष भी वौड़ियों के नहाने मानो रोमांच धारण कर रहे थे। तिथंच भी अन्य सब
कार्य छोड़ उसी के सुनने में कान देकर उकेरे हुपके समान निश्चेष्ट समस्त अवयवांसे युक्त हो ३. उस क्षणको देखने लगे। किन्तु राजा लोग समस्त मनुष्यों के कानोंको वश करने में निपुण उस
मृगनयनीका वीणा बजाना सुन 'यह वामलोचना इस क्रियासे तो संसारमें किसीके द्वारा नहीं जीती जा सकती यह निश्चय कर श्वासोच्छ्वास के साथ-साथ विवाहकी आशा छोड़ चैटे और कामसे प्रतारित हो कुछ समय तक नम्रीभूत मुखसे अपने हृदयका विशद प्रकट करते हुए चुप बैठ गये। कुछने रवयंको वीणावादनका पण्डित मान वीणा बजाना प्रारम्भ
१. क० ख० ग० 'तु' नास्ति ।